________________
रत्नाकरावतारिकायुक्तः ।
१०७
दत्तवान्ध्येयौ वक्त्रवन्तौ वक्तृत्वादित्ययं हेतुरस्तु । नैवम् । न वान्ध्येयो वक्त्रवान्, असत्त्वादित्यनेन तद्बाधनात् । तदसत्त्वं च साधकप्रमाणाभावात् सुप्रसिद्धम् ।। सन्दिग्धाश्रयासिद्धिरपि न हेतुदोषः; हेतोः साध्येनाविनाभावसंभवात् । धर्म्यसिद्धिस्तु पक्षदोषः स्यात् । साध्यधर्मविशिष्टतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते, न च सन्देहास्पदीभूतस्यास्य प्रसिद्धिरस्तीति पक्षदोषेणैवास्य गतत्वान्न हेतोर्दोषो वाच्यः । सन्दिग्धाश्रयैकदेशासिद्धोऽपि तथैव । आश्रयसन्दिग्धवृत्त्यसिद्धोऽपि न साधुः; यतो यदि पक्षधर्मत्वं गमकत्वाङ्गमङ्गीकृतं स्यात् तदा स्यादयं दोषः; न चैवम् । तत्किमाश्रयवृन्त्यनिश्चयेऽपि केकायितान्नियतदेशांधिकरणमयूरसिद्धिर्भवतु ? | नैवम् । के कायितमात्रं हि मयूरमात्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति । देशविशेषविशिष्टमयूरसिद्धौ तु देशविशेषविशिष्टस्यैव केकायितस्याविनाभावावसाय इति केकायितमात्रस्य तद्व्यभिचारसंभवादेवागमकत्वम्। एवमाश्रयैकदेशसंदिग्धवृत्तिरप्यसिद्धो न भवतीति । व्यर्थविशेषणविशेष्यासिद्धावपि नासिद्धभेदौ; वक्तुरकौशलमात्रत्वाद्वचनवैयर्थ्यदोषस्य । एवं व्यर्थैकदेशा सिद्धादयोऽपि वाच्याः। ततः स्थितमेतद्, एतेष्वसिद्धभेदेषु संभवन्त उभयासिद्धान्यतससिद्धयोरन्तर्भवन्ति । नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति । तथाहि - परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत तदा प्रमाणाभावादुभयोरप्यसिद्धः; अथाचक्षीत, तदा प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धः । अथवा यावन्न परं प्रति प्रमाणेन प्रसाध्यते, तावत्तं प्रत्यसिद्ध इति चेत्; गौणं तर्ह्यसिद्धत्वम् ; नहि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतस्तदाभासः । किं च । अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः स्यात्; न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् ; नापि हेतुसमर्थनं पश्चाद्युक्तम् ; निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते- .. यदा वादी सम्यग्धेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्रानिकान् वा प्रतिबोधयितुं न शक्नोत्यसिद्ध
1