________________
प्रमाणनयतस्वालोकालङ्कारः
तामपि नानुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । तथा स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् ; यथा-सांख्यस्य जैनं प्रत्यचेतनाः सुखादयः, उत्पत्तिमत्त्वाद्धटवदिति। ननु कथं तर्हि प्रसङ्गसाधनं सूपपादं स्यात् ?; तथा च प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनं प्रसङ्गः; यथा-यत्सर्वथैकं तन्नानेकत्र वर्त्तते, यथैकः परमाणुस्तथाच सामान्यमिति कथमनेकव्यक्तिति स्यात् ?; अनेकव्यक्तिवत्तित्वाभावं व्यापकमन्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेः । अत्र हि वादिनः स्याद्वादिनः सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकव्यक्तिवर्तित्वाभावस्य गमकं स्यादिति चेत् ? । तदयुक्तम् । एकधर्मोपगमे धर्मान्तरोपगमसंदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् , प्रसङ्गविपर्ययरूपस्यैव मौलहेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवत्तित्वस्य हि व्यापकमनेकत्वम् ; एकान्तैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य स्वभावस्याभावेनान्यपदार्थाधेयत्वासंभवात् तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकम् ; तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति नानेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावेन व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो हेतुः, यथा-यदनेकवृत्ति तदनेकम्। यथा-अनेकभाजनगतं तालफलं, अनेकवृत्ति च सामान्यमिति एकत्वस्य विरुद्धमनेकत्वम् । तेन व्याप्तमनेकवृत्तित्वम् ; तस्योपलब्धिरिह मौलत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात्। न चायमुभयोरपि न सिद्धः; सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव च वस्तुनिधायकः । ननु यद्ययमेव वस्तुनिश्चायकः कक्षीक्रियते, तर्हि किं प्रस