________________
रत्नाकरावतारिकायुक्तः। १०९ ङ्गोपन्यासेन ? प्रागेवायमेवोपन्यस्यताम् । निश्चयाङ्गमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भवतीति चेत् । मैवम् । मौलहेतुपरिकरत्वादस्य। अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चिन्निश्वाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकभावसाधने प्रकारान्तरमेवैतत् । यत्सर्वथै तन्नानेकत्र वर्त्तत इति व्याप्तिदर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । एवं च नान्यतरासिद्धस्य कस्यापि गमकत्वमिति॥५१।।
अधुना विरुद्धलक्षणमाचक्षतेसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते
स विरुद्धः ॥ ५२ ॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ॥ ५२ ॥
अत्रोदाहरणम्यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञाना
दिमत्त्वात् ॥ ५३ ॥ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । अयं च हेतुः प्राचि, साध्ये साङ्ख्यादिभिराख्यातः। स्थिरैकवरूपपुरुषसाध्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाद्विरुद्धः । तथाहि-यद्येष पुरुषः स्थिरैकस्वरूप एव, तदा सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः; तद्भावे वा स्थिरैकरूपत्वहानिः। अवस्थाभेदादयं व्यवहारः । इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः । व्यतिरेके तास्तस्येति संबन्धाभावः; अव्यतिरेके पुनरवस्थातैवेति तदवस्थस्तदभावः । कथं च तदेकान्तैक्ये अवस्थाभेदोऽपि भवेत्। तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणेऽयं हेतुर्विरुद्धः; परिणामिपुरुषेणैव व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदध