________________
११० प्रमाणनयतत्त्वालोकालङ्कारःमिणि पुरुषे पुरुषान्तरचित्तवदेकसन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न स्याताम् ; नित्यानित्ये पुंसि पुनः सर्वमेतदवदातमुपपद्यते । विरोधादेः सामान्यविशेषवञ्चित्रज्ञानवच्चासंभवात् । तथा तुरङ्गोऽयं शृङ्गसङ्गित्वादित्याद्यप्यत्रोदाहर्त्तव्यम् । ये च सति सपक्षे पक्षविपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि-सति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा-नित्यः शब्दः कार्यत्वात् । सर्पक्षश्चात्र चतुर्वपि व्योमादिनित्यः, स्वकारणसमवायः कार्यत्वं; उभयान्तोपलक्षिता सत्ताऽनित्यत्वमित्येके; तदभिप्रायेण प्रागभावस्यापि नित्यत्वाद्युक्तमेव विरुद्धोदाहरणम् । अन्यथा न विपक्षव्यापि कार्यत्वं स्यात् । यदा त्वादिमत्त्वमेव कार्यत्वं तदा प्रध्वंसस्य नित्यत्वेऽपि कार्यत्वमस्तीत्यनैकान्तिकं स्यात् न विरुद्धमिति । अयं च पक्षे शब्दे विपक्षे घटादौ व्याप्य वर्तते । १। विपक्षकदेशवृत्तिः पक्षव्यापको यथानित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् । अर्हत्यर्थे कृत्याभिधानात् ग्रहणयोग्यतामात्रं ग्राह्यत्वमुक्तम् , तेनास्य पक्षव्यापकत्वं, विपक्षे तु घटादावस्ति न सुखादौ । २ । पक्षविपक्षैकदेशवृत्तिर्यथा-नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । अयं हि पुरुषादिशब्दे पक्षेऽस्ति न वाय्वादिशब्दे, घटादौ च विपक्षे,न विद्युदादौ। ३ । पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा-नित्या पृथिवी कृतकत्वात् । कृतकत्वं व्यणुकादावस्ति पृथिव्यां न परमाणौ, विपक्षे तु घटादौ सर्वत्रास्ति । ४ । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथाआकाशविशेषगुणः शब्दः प्रमेयत्वात् । एषु चतुर्वप्याकाशे विशेषगुणान्तरस्याभावात् सपक्षाभावः । अयं च पक्षे शब्दे विपक्षे च रूपादौ व्याप्य वर्तते । ५। पक्षविपक्षैकदेशवृत्तिर्यथा-तत्रैव पक्षे प्रयत्नानन्तरीयकत्वात् । अयं पक्षे पुरुषादिशब्दे एव, विपक्षे च रूपादावेवास्ति, न वाय्वादिशब्दे विद्युदादौ च । ६ । पक्षव्यापको विपक्षकेदशवृत्तिर्यथा-तत्रैव पक्षे बाह्येन्द्रियग्राह्यत्वात् । अयं शब्दं पक्षं ध्यानोति, विपक्षे तु रूपादावस्ति न सुखादौ । ७ । विपक्षव्यापकः