________________
रत्नाकरावतारिकायुक्तः। १११ पक्षकदेशवृत्तिर्यथा-तत्रैव पक्षे अपदात्मकत्वात् । अयं पक्षैकदेशे वर्णात्मकेऽस्ति नान्यत्र, विपक्षे तु रूपादौ सर्वत्रास्ति । ८ । ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका नान्ये, ये पक्षैकदेशवृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात् । तदसत् । उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात्, तुलायां प्रमाणप्रमेयव्यवहारवत् । धर्मिस्वरूपविपरीतसाधनर्मिविशेषविपरीतसाधनौ तु सौगतसंमतौ हेत्वाभासावेव न भवतः; साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानाद् । अन्यथा समस्तानुमानोच्छेदापत्तिः । तथाहि-अनित्यः शब्दः कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो यः कृतकः स शब्दो न भवति, यथाघटः । यो यः कृतकः स श्रावणो न भवति । यथा-स एवेति धर्मिणः स्वरूपं विशेषं च साधयत्येवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥५३॥ .
अनैकान्तिकस्वरूपं प्ररूपयन्तियस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः ॥५४॥
साध्यसद्भावे क्वचिद्धेतोर्विभावनात् कचित्तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा भवति ॥ ५४ ॥ एतद्भेदसङ्ख्यामाख्यान्तिस द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च॥
निर्णीता विपक्षे वृत्तिर्यस्य स तथा; सन्दिग्धा विपक्षे वृत्तिर्यस्य स तथोक्तः । अयं सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धान्यथानुपपत्तिकः, सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ॥ ५५ ॥ · तत्राद्यभेदमुदाहरन्तिनिर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥५६॥
प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयत तथा विपक्षभूतेऽप्यनित्ये घटादौ प्रतीयत एव; ततश्चोभयत्रापि प्रतीयमानत्वाविशेषात् किमिदं नित्यत्वेनाविनाभूतम् , उताहो ! अनित्यत्वेन? इत्येव