________________
११२ प्रमाणनयतत्त्वालोकालङ्कारःमन्यथानुपपत्तेः संदिह्यमानत्वादनैकान्तिकतां स्वीकुरुते । एवं वह्निमानयं पर्वतनितम्बः पाण्डुद्रव्योपेतत्वादित्याद्यप्युदाहार्यम् ॥ ५६ ॥
अथ द्वितीयभेदमुदाहरन्तिसन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः
सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ . वक्तृत्वं हि विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम् ; सर्वज्ञः किं वक्ता आहोस्विन्न वक्ता ? इति संदेहात् । एवंस श्यामो मैत्रपुत्रत्वादित्याद्यप्युदाहरणीयम् । सोपाधिरयमिति नैयायिकाः। उपाधिः खल्वत्र शाकाद्याहारपरिणामः,साधनाव्यापकत्वे सति साध्येन समव्याप्तिकत्वात् । साधनव्यापकःखलूपाधिन भवति । अन्यथा वह्निसंबन्धोऽपि धूमस्य सोपाधिः स्यात् ,आर्दैन्धनसंबन्धस्य तथाभूतस्य संभवात्। ननु शाकाद्याहारपरिणामोऽपि मैत्रपुत्रत्वाख्यसाधनस्य व्यापक एव; तमन्तरेणाऽस्य हेतोः कचिददर्शनात् । परिदृश्यमानकतिपयतत्पुत्रेषु तद्भाव एव तद्भावादिति चेत। नैवम्। कचित्तद्भावभावित्वावलोकनेऽपि सर्वत्र मैत्रपुत्रताशाकाद्याहारपरिणामसमन्वितैवेति निर्णेतुमशक्तेः । तत्संबन्धस्यापिसोपाधिकत्वात् । श्यामत्वरूपस्योपाधेर्विद्यमानत्वात् । मैत्रपुत्रोऽपि हि स एव शाकाद्याहारपरिणतिमान् यः श्याम इति; साधनाव्यापकोऽपि यः साध्यस्याप्यव्यापको नासावुपाधिः । यथा-धूमानुमाने खादिरत्वम् । तद्धि यथा-धूमस्य, एवं वह्वेरप्यव्यापकमेवेति नोपाधिः । अप्रयोजकोऽयं हेत्वाभास इत्यपरे । परप्रयुक्तव्याप्त्युपजीवी हि हेतुरप्रयोजकः; परश्चोपाधिः स चात्रास्तीति । न चैवमपि नामभेदे कश्चिद्दोषः, सन्दिग्धविपक्षवृत्तिकत्वानतिक्रमात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽ
नैकान्तिकभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि- पक्षसपक्षविपक्षव्यापको यथा-अनित्यः शब्दः प्रमेयत्वात् । अयं पक्षे शब्दे सपक्षे घटादौ विपक्षे व्योमादौ चास्ति । १। पक्षव्यापकः . सपक्षविपझैकदेशवृत्तिर्यथा-अनित्यः शब्दः प्रत्यक्षत्वात् । अस्मदादीन्द्रियग्रह