________________
रत्नाकरावतारिकायुक्तः ।
११३
"
"
णयोग्यतामात्रं प्रत्यक्षत्वमत्राभिप्रेतं, ततो नास्य पक्ष त्रयव्यापकत्वं पश्चैकदेशवृत्तित्वं वा प्रसज्यते । पक्षे हि शब्देऽयं सर्वत्रास्ति, न सपक्ष विपक्षयोः घटादौ सामाम्यादौ च भावाद, व्यणुकादौ व्योमादौ चाभावात् । २ । पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-गौरयं, विषाणित्वात् । अयं हि पक्षं गां सपक्षं च गवान्तरं व्याप्नोति, विपक्षे तु महिष्यादावस्ति, न तु तुरङ्गादौ । ३ । पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तियेथा- नायं गौर्विषाणित्वात् । अयं पक्षं गवयं विपक्षं च गां व्याप्नोति, सपक्षे तु महिष्यादावस्ति, न तु तुरङ्गादौ । ४ । पक्षसपक्षविपक्षैकदेशवृत्तिर्यथा-नित्या पृथिवी, प्रत्यक्षत्वात् । अयं पक्षे घटादावस्ति, न परमाण्वादौ, सपक्षे सामान्यादावस्ति, नाकाशादौ, विपक्षे बुदबुदादावस्ति, नाप्यद्व्यणुकादौ, अयोग्यक्षविषयत्वमेवात्र प्रत्यक्षत्वं द्रष्टव्यम् । ५ । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा- द्रव्याणि दिक्कालमनांसि, अमूर्त्तत्वात् । अयं पक्षे दिक्कालयोर्वर्त्तते, न मनसि सपक्षे व्योमन्यस्ति, न घटादौ, विपक्षं तु गुणादिकं व्याप्नोति । ६ । पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा-न द्रव्याणि दिक्कालमनांसि, अमूर्त्तत्वात् । प्राक्तनवैपरीत्येन सुगममेतत् । ७ । सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तियथा- न द्रव्याणि आकाशकालदिगात्ममनांसि, क्षणिकविशेषगुणरहितत्वात् । अयं पक्षे कालदिग्मनःसु वर्त्तते, नाकाशात्मसु, सपक्षं गुणादिकं विपक्षं च पृथिव्यप्तेजोवायुरूपं व्याप्नोति । ८ । यश्च नित्यः शब्दः श्रावणत्वादित्यादि सपक्षविपक्षव्यावृत्तत्वेन संशयजनक - त्वादसाधारणानैकान्तिकः सौगतैः समाख्यायते; नैष सूक्ष्मतामञ्चति; श्रावणत्वाद्धि शब्दस्य । सर्वथैव नित्यत्वं यदि साध्यते तदाऽयं विरुद्ध एव हेतुः, कथञ्चिदनित्यत्वसाधनात् । प्राच्याश्रावणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिदनित्यत्वमन्तरेण शब्देऽनुपपत्तेः । अथ कथञ्चिन्नित्यत्वमस्माच्छब्दे साध्यते तदाऽसौ सम्यग्धेतुरेव, कथञ्चिन्नित्यत्वेन सार्द्धमन्यथाऽनुपपत्तिसद्भावादिति नायमनैकान्तिकः । यं च विरुद्धाव्यभिचारिनामानमनैकान्तिकविशेषमेते व्यतानिपुः, यथा
१५