________________
११४
प्रमाणनयतत्वालोकालङ्कारः-
अनित्यः शब्दः, कृतकत्वात् घटवत् । नित्यः शब्दः, श्रावणत्वात्, शब्दत्ववदिति; सोऽपि नित्यानित्यस्वरूपानेकान्तसिद्धौ सम्यग्धेतुरेव; तदपरपरिणामित्वादिहेतुवत् । सर्वथैकान्तसिद्धये पुनरुपन्यस्तोऽसौ भवत्येव हेत्वाभासः; स तु विरुद्धो वा संदिग्धविपक्षवृत्तिरनैकान्तिको वेति न कश्चिद्विरुद्धाव्यभिचारी नाम । एवं च असिद्धविरुद्धानैकान्तिकास्त्र एव हेत्वाभासा इति स्थितम् । नन्वन्योऽप्यकिञ्चित्कराख्यो हेत्वाभासः परैरुक्तः, यथा - प्रतीते प्रत्यक्षादिनिराकृते च साध्ये हेतुरकिञ्चित्करः । प्रतीते, यथा-शब्दः श्रावणः, शब्दत्वात् । प्रत्यक्षादिनिराकृते, यथाअनुष्णः कृष्णवर्त्मा, द्रव्यत्वाद् ; यतिना वनिता सेवनीया, पुरुषत्वादित्यादिः स कथं नात्राभिहित इति चेत् । उच्यते । नन्वेष हेतुर्निश्चिताऽन्यथानुपपत्त्या सहितः स्याद्रहितो वा । प्रथमपक्षे, हेतोः सम्यक्त्वेऽपि प्रतीतसाध्यधर्मविशेषणप्रत्यक्षनिराकृतसाध्यधर्मविशेषणाऽऽगमनिराकृ
तसाध्यधर्मविशेषणादिपक्षाभासानां निवारयितुमशक्यत्वात् तैरेव दुष्टमनुमानम् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वप्रसक्तेः । द्वितीयपक्षे तु यथोक्तत्वाभासानामन्यतमेनैवानुमानस्य दुष्टत्वम् । तथा हि-अन्यथानुपपत्तेरभावोऽनध्यवसायाद्विपर्ययात् संशयाद्वा स्यात्, प्रकारान्तरासंभवात्; तत्र च क्रमेण यथोक्तहेत्वाभासावतार इति नोक्तहेत्वाभासेभ्योऽभ्यधिकः कश्चिदकिञ्चित्करो नाम । एवमेव न कालात्ययापदिष्टोऽपि । तथाहि - अस्य स्वरूपं कालात्ययापदिष्टः कालातीत इति; हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमयस्तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्त्तमानः कालात्ययापदिष्टो भवतीति । अयं चाकिञ्चित्करदूषणेनैव दूषितोऽवसेयः । प्रकरणसमोऽप्यप्रकटनीय एव । अस्य हि लक्षणं; यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसम इति; यस्मात्प्रकरणस्य पक्षप्रतिपक्षयोश्चिन्ता विमर्शात्मिका प्रवर्त्तते, कस्माञ्चासौ प्रवर्त्तते ?, विशेषानुपलम्भात्; स एव विशेधानुपलम्भो यदा निर्णयार्थमपदिश्यते तदा प्रकरणमनतिवर्त्तमा