________________
रत्नाकरावतारिकायुक्तः। ११५ नत्वात् प्रकरणसमो भवति; प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य इति । यथा-अनित्यः शब्दो नित्यधर्मानुपलब्धेरित्येकेनोक्ते, द्वितीयः प्राह- यद्यनेन प्रकारेणानित्यत्वं साध्यते तर्हि नित्यतासिद्धिरप्यस्तु, अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि- नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । अयं चानुपपन्नः, यतो यदि नित्यधर्मानुपलब्धिनिश्चिता, तदा कथमतो नानित्यत्वसिद्धिः?; अथानिश्चिता, तर्हि संदिग्धासिद्धतैव दोषः । अथ योग्यायोग्यविशेषणमपास्य नित्यधर्माणामनुपलब्धिमात्रं निश्चितमेव, तत्तर्हि व्यभिचार्येव । प्रतिवादिनश्वासौ नित्यधर्मानुपलब्धिः स्वरूपासिद्धैव नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः। एवमनित्यधर्मानुपलब्धिरपि परीक्षणीया; इति-सिद्धं त्रय एव हेत्वाभासाः।।५।।
अथ दृष्टान्ताभासान् भासयन्तिसाधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥
दृष्टान्तो हि प्राग् द्विप्रकारः प्रोक्तः, साधर्म्यण वैधयेण च । ततस्तदाभासोऽपि तथैव वाच्य इति साधर्म्यदृष्टान्ताभासस्तावत्प्रकारतो दर्शितः ॥ ५८॥
प्रकारानेव कीर्तयन्तिसाध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, सन्दिग्धसाध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्व
यश्चेति ॥ ५९॥ . इतिशब्दः प्रकारपरिसमाप्तौ; एतावन्त एव साधर्म्यदृष्टान्ताभासप्रकारा इत्यर्थः ॥ ५९॥
क्रमेणामून् उदाहरन्तितत्रापौरुषेयः शब्दोऽमूर्त्तत्वाद् दुःखवदिति साध्यधर्म
विकलः ॥ १॥ ६ ॥