________________
११६ प्रमाणनयतत्त्वालोकालङ्कारः
पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात् । तत्रापौरुषेयत्वसाध्यस्यावृत्तेरयं साध्यधर्मविकल इति ॥१॥६०॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति
साधनधर्मविकलः ॥ २ ॥ ६१ ॥ परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूर्त्तत्वं ना स्ति, मूर्त्तत्वात् परमाणोः ॥ २॥ ६१ ॥ . कलशवदित्युभयधर्मविकलः॥ ३ ॥ ६२ ॥
तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाश्च साध्यसाधनोभयधर्मविकलता ।। ३ ।। ६२ ॥ रागादिमानयं वक्तृत्वादेवदत्तवदिति सन्दिग्धसाध्य
धर्मा ॥ ४ ॥ ६३ ॥ देवदत्ते हि रागादयः सदसत्त्वाभ्यां संदिग्धाः; परचेतोविकाराणां परोक्षत्वाद्रागाद्यव्यभिचारिलिङ्गादर्शनाच्च ॥ ४ ॥ ६३ ॥ मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति संदिग्धसाधन
धर्मा ॥ ५॥ ६४ ॥ मैत्रे हि साधनधर्मो रागादिमत्त्वाख्यः संदिग्धः ॥ ५ ॥ ६४ ॥ नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दि
ग्धोभयधर्मा ॥ ६ ॥ ६५ ॥ __मुनिविशेषेसर्वदर्शित्वरागादिमत्त्वाख्यौ साध्यसाधनधौं संदिहोते; तदव्यभिचारिलिङ्गादर्शनात् ॥ ६ ॥ ६५ ॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्य
। नन्वयः॥ ७ ॥६६॥ ___ यद्यपीष्टपुरुषे रागादिमत्त्वं च वक्तृत्वं च साध्यसाधनधौ दृष्टी, तथापि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्धेरनन्वयत्वम्।।७॥६६