________________
रत्नाकरावतारिकायुक्तः ।
अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शि
तान्वयः ॥ ८ ॥ ६७ ॥
अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयत्वम् । यद्यप्यत्र वस्तुनिष्ठो न कश्चिद्दोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तृगुणदोषौ परीक्षणीयाविति भवत्यस्य वाचनिकं दुष्टत्वम् । एवं विपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेष्वपि द्रष्टव्यम् ।। ८ ।। ६७ ।।
अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ ९ ॥ ६८ ॥
११७
प्रसिद्धानुवादेन ह्यप्रसिद्धं विधेयम्; प्रसिद्धं चात्र कृतकत्वं हेतुत्वेनोपादानाद्, अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशाद्; इति प्रसिद्धस्य कृतकत्वस्यैवानुवादसर्वनाम्ना यच्छब्देन निर्देशो युक्तः, न पुनरप्रसिद्धस्यानित्यत्वस्य; अनित्यत्वस्यैव च विधिसर्वनाम्ना यच्छब्देन परामर्शउपपन्नो न तु कृतकत्वस्य ॥ ९ ॥ ६८ ॥
अथ वैधर्म्यदृष्टान्ताभासमाहु:
वैधर्म्येणापि दृष्टान्ताभासो नवधा ॥ ६९ ॥
तानेव प्रकारानुद्दिशन्ति
असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७० ॥
अथैतान् क्रमेणोदाहरन्ति
तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनर्भ्रान्तं न भवति