________________
११८
प्रमाणनयतत्त्वालोकालङ्कारः-.
न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः; खप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥१॥७१॥ निर्विकल्पकं प्रत्यक्षं प्रमाणवाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ २ ॥ ७२ ॥ नित्यानित्यः शब्दः सत्त्वात् यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ॥ ३ ॥ ७३ ॥
व्यक्तमेतत्सूत्रत्रयमपि ।। ३ ।।७३ ।। असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादिलाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तवयोः साध्यधर्मयोावृत्तेः सन्देहात् ॥ ४॥ ७४ ॥ ___ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञतानाप्तत्वप्राप्तेः केवलं तत्प्रतिक्षेपकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातॄणां सन्दिग्धसाध्यव्यतिरेकत्वेनाभास इति तथैव कथितः ॥ ४ ॥७४॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद् यः पुनरादेयवचनःस वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥५॥ ७५ ॥
यद्यपि तदर्शनानुरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं तथापि रागादिमत्त्वाभावस्तन्निश्चायकप्रमाणवैकल्यतः सन्दिग्ध एव ॥५॥७५।।