________________
रत्नाकरावतारिकायुक्तः। ११९ न वीतरागः कपिलः करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकललात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागलाभावस्य करुणाऽऽस्पदेष्वपि परमकृपयानिर्पितनिजपिशितशकलवस्य च व्यावृत्तेः सन्देहात् ॥ ६॥ ७६ ॥
तपनबन्धुर्बुद्धो वैधर्म्यदृष्टान्ततया यः समुपन्यस्तः स न ज्ञायते किं रागादिमानुत वीतरागः, तथा करुणाऽऽस्पदेषु परमकृपया निजपिशितशकलानि समर्पितवान्नवा, तन्निश्चायकप्रमाणापरिस्फुरणात् ॥६॥७६।। नवीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः पुनर्वीतरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः॥७॥७७॥
यद्यपि किलोपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकत्वम् ॥ ७ ॥ ७७ ॥ अनित्यः शब्दः कृतकलादाकाशवदित्यप्रदर्शित
व्यतिरेकः ॥ ८॥ ७८ ॥ अत्र यदनित्यं न भवति तत्कृतकमपि न भवतीति विद्यमानोऽपि व्यतिरेको वादिना स्ववचनेन नोद्भावित इत्यप्रदर्शितव्यतिरेकत्वम् ॥ ८॥ ७८॥ अनित्यः शब्दः कृतकवाद् यदकृतकं तन्नित्यं यथाऽऽ
काशमिति विपरीतव्यतिरेकः ॥ ९ ॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयो न चैवमत्रेति विपरीतव्यतिरेकत्वम् ॥ ९॥ ७९ ॥