SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १२० प्रमाणनयतत्त्वालोकालङ्कारः अथोपनयननिगमनाभासौ प्रभाषन्तेउक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ॥८॥ 'हेतोः साध्यमिण्युपसंहरणमुपनयः' इत्युपनयस्य लक्षणम् ; 'साध्यधर्मस्य पुनर्निगमनम्' इति निगमनस्येति ।। ८० ॥ उपनयाभासमुदाहरन्तियथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८१ ॥ इह साध्यधर्म साध्यमिणि साधनधर्म वा दृष्टान्तर्मिणि उपसंहरत उपनयाभासः ।। ८१ ॥ निगमनाभासमुदाहरन्तितस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मा त्परिणामी कुम्भ इति च ॥ ८२ ॥ अत्रापि साधनधर्म साध्यधार्मणि साध्यधर्म वा दृष्टान्तर्मिणि उपसंहरतो निगमनाभासः । एवं पक्षशुद्धयाद्यवयवपञ्चकस्य भ्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कणीयम् ।। ८२ ॥ इत्थमनुमानाभासमभिधायागमाभासमाहुःअनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त उक्तस्तद्विपरीतोऽनाप्तस्तद्वचनसमुत्थं ज्ञानमागमाभासं ज्ञेयम् ॥ अत्रोदाहरन्तियथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत २ शावकाः! ॥४॥ रागाक्रान्तो ह्यनाप्तः पुरुषः क्रीडापरवशः सन्नात्मनो विनोदार्थ
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy