________________
रत्नाकरावतारिकायुक्तः। १२१ किञ्चन वस्त्वन्तरमलभमानः शावकैरपि समं क्रीडाऽभिलाषेणेदं वाक्यमुचारयति ।। ८४॥ एवमुक्तः प्रमाणस्य स्वरूपाभासः; संप्रति संख्याऽऽभासमाख्यान्तिप्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य ।
संख्याऽऽभासम् ॥५॥ प्रत्यक्षपरोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् ; तद्वैपरीत्येन प्रत्यक्षमेव, प्रत्यक्षानुमाने एव, प्रत्यक्षानुमानागमा एव प्रमाणमित्यादिकं चार्वाकवैशेषिकसौगतसांख्यादितीर्थान्तरीयाणां संख्यानं, तस्य प्रमाणस्य संख्याऽऽभासम् । प्रमाणसंख्याभ्युपगमश्च परेषामितोऽवसेयःचार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द
तद् द्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥८५॥ अथ विषयाभासं प्रकाशयन्तिसामान्यमेव, विशेष एव, तद्दयं वा स्वतन्त्रमित्यादि
स्तस्य विषयाभासः ॥ ८६ ॥ सामान्यमानं सत्ताद्वैतवादिनो, विशेषमात्रं सौगतस्य, तदुभयं च स्वतन्त्रं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयाभासः ।आदिशब्दान्नित्यमेवानित्यमेव तवयं वा परस्परनिरपेक्षमित्याद्येकान्तपरिग्रहः ॥ ८६॥
अथ फलाभासमाहुःअभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभा
सम् ॥ ८७ ॥ अभिन्नमेव प्रमाणात्फलं बौद्धानां, भिन्नमेव नैयायिकादीनां तस्य
१६