________________
रत्नाकरावतारिकायुक्तः ।
९९
इत्यादिना हि प्रसिद्धप्रामाण्येन परमागमवाक्येन क्षपाभक्षणपक्षः प्रतिक्षिप्यमाणत्वान्न साधुत्वमास्कन्दति । एवं जैनेन परकलत्रमभिलषणीयमित्याद्युदाहरणीयम् ||४३||
चतुर्थ प्रकारं प्रथयन्तिलोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः
प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥
लोकशब्देनात्र लोकप्रतीतिरुच्यते । ततो लोकप्रतीतिनिराकृतसाध्यधर्मविशेषण इत्यर्थः । सर्वाऽपि हि लोकस्य प्रतीतिरीदृशी यत्पारमार्थिकं प्रमाणं, तेन च तत्त्वातत्त्वविवेकः पारमार्थिक एव क्रियते । ननु लोकप्रतीतिरप्रमाणं, प्रमाणं वा ? । अप्रमाणं चेत्, कथं तया बाधः कस्यापि कर्तुं शक्यः ? । प्रमाणं चेत्, प्रत्यक्षाद्यतिरिक्तं, तदन्यतरद्वा । न तावदाद्यः पक्षः, प्रत्यक्षाद्यतिरिक्तप्रमाणस्यासंभवात् । अन्यथा " प्रत्यक्षं च परोक्षं च " इत्यादिविभागस्यासमञ्जस्यापत्तेः । द्वितीयपक्षे तु प्रत्यक्षनिराकृतसाध्यधर्मविशेषणादिपक्षाभासेष्वेवास्यान्तर्भूतत्वात् न वाच्यः प्रकृतः पक्षाभास इति चेत् । सत्यमेतत्, किन्तु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति विनेयमनीषोन्मीलनार्थमस्य पार्थक्येन निर्देशः । एवं शुचि नरशिरः कपालप्रमुखं, प्राण्यङ्गत्वात्, शङ्खशुक्तिवदित्याद्यपि दृश्यम् ॥४४॥ पञ्चमप्रकारं कीर्त्तयन्तिस्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति
प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्रतिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः; ब्रुवाणस्तु नास्ति प्रमाणं प्रमेयपरिच्छेदकमिति स्ववचनं प्रमाणीकुर्वन् ब्रूत इति स्ववचनेनैवासी व्याहन्यते; एवं निरन्तरमहं मौनीत्याद्यपि दृश्यम् । ननु स्ववचनस्य शब्दरूपत्वात्तन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्राग्गदितागमनिराकृतसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथनमिति चेत् । एवमेतत्, तथापि शिष्यशेमुषीविकाशार्थमस्यापि पार्थक्येन