________________
९८ प्रमाणनयतत्वालोकालद्वार:- प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध्यधर्मविशेपणः, आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः, स्ववचननिराकृतसाध्यधर्मविशेषणः; आदिशब्दात्स्मरणनिराकतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिराकृतसाध्यधर्मविशेषणश्चेति ॥ ४० ॥
एषु प्रथमं प्रकार प्रकाशयन्तिप्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतवि
लक्षण आत्मा ॥४१॥ स्वसंवेदनप्रत्यक्षेण हि पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परिणतेभ्यो भूतेभ्यो विलक्षणोऽन्य आत्मा परिच्छिद्यते, इति तद्विलक्षणात्मनिराकरणप्रतिज्ञाऽनेन बाध्यते; यथाऽनुष्णोऽग्निः, इति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण ॥४१॥
द्वितीयप्रकारं प्रकाशयन्तिअनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्व
ज्ञो वीतरागो वा ॥ ४२ ॥ अत्र हि यः कश्चिन्निासातिशयवान् , स कचित्स्वकारणजनितनिर्मूलक्षयः यथा कनकादिमलो, निर्हासातिशयवती च दोषावरणे इत्यनेनानुमानेन सुव्यक्तैव बाधा । एतस्मात्खल्वनुमानाद्यत्र कचन पुरुषधौरेये दोषावरणयोः सर्वथा प्रक्षयप्रसिद्धिः, स एव सर्वज्ञो वीतरागश्चेति। एवमपरिणामी शब्द इत्यादिरपि प्रतिज्ञा परिणामी शब्दः कृतकत्वान्यथाऽनुपपत्तेरित्याद्यनुमानेन बाध्यमानाऽत्रोदाहरणीया ॥ ४२ ॥
अथ तृतीयं भेदमाहुःआगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनि
भोजनं भजनीयम् ॥४३॥ "अत्थं गयंमि आइच्चे पुरत्था य अणुग्गए। आहारमाइयं सव्वं मणसा वि न पत्थए" ॥१॥ दशका