________________
९७
- रत्नाकरावतारिकायुक्तः । अनुमानाभासमाख्यान्तिपक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ ३७॥
पक्षाभासो वक्ष्यमाण आदिर्येषां हेत्वाभासादीनां भणिष्यमाणस्वरूपाणां तेभ्यः समुत्था समुत्पत्तिरस्येति पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमभिधीयते । एतच्च यदा स्वप्रतिपत्त्यर्थ तदा स्वार्थानुमाचाभासं, यदा तु परप्रतिपत्त्यर्थ पक्षादिवचनरूपापन्नं तदा परार्थानुमानाभासमवसेयमिति ॥ ३७॥
पक्षाभासांस्तावदाहुःतत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः
पक्षाभासाः ॥ ३८॥ प्रतीतसाध्यधर्मविशेषणः, निराकृतसाध्यधर्मविशेषणः, अनभीप्सितसाध्यधर्मविशेषणश्चेति त्रयः पक्षाभासा भवन्ति; अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वात् ॥ ३८॥
तत्राद्यं पक्षाभासमुदाहरन्तिप्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान्प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥३९॥
अवधारणं वर्जयित्वा परोपन्यस्तः समस्तोऽपि वाक्प्रयोग आर्हतानां प्रतीतमेवार्थ प्रकाशयति । ते हि सर्व जीवादिवस्त्वनेकान्तात्मकं प्रतिपन्नाः, ततस्तेषामवधारणरहितं प्रमाणवाक्यं,सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्भावयतीति व्यर्थस्तत्प्रयोगः। सिद्धसाधनः, प्रसिद्धसंबन्ध इत्यपि संज्ञाद्वयमस्याविरुद्धम् ॥ ३९ ॥
द्वितीयपक्षाभासं भेदतो नियमयन्तिनिराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेक
प्रकारः ॥ ४०॥.