SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः अथ परोक्षाभासं विवक्षवः स्मरणाभासं तावदाहुःअननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥३१॥ अननुभूते प्रमाणमात्रेणानुपलब्धे ॥३१॥ उदाहरन्तिअननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥ प्रत्यभिज्ञाभासं प्ररूपयन्तितुल्ये पदार्थे स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादि ज्ञानं प्रत्यभिज्ञानाभासम् ॥ ३३॥ प्रत्यभिज्ञानं हि तिर्यगूर्खतासामान्यादिगोचरमुपवर्णितं, तत्र तिर्यक्सामान्यालिङ्गिते भावे स एवायमिति ऊर्ध्वतासामान्यस्वभावे चैकस्मिन् द्रव्ये तेन तुल्य इति ज्ञानम् आदिशब्दादेवंजातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञानाभासमिति ॥३३॥ उदाहरन्ति यमलकजातवत् ॥३४॥ यमलकजातयोरेकस्याः स्त्रिया एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र द्वितीयेन तुल्योऽयमिति जिज्ञासिते स एवायमिति, अपरत्र स एवायमिति बुभुत्सिते तेन तुल्योऽयमिति च ज्ञानं प्रत्यभिज्ञानाभासम् ॥३४॥ तर्कामासमादर्शयन्तिअसत्यामपि व्याप्तौ तदवभासस्तर्काभासः ॥३५॥ व्याप्तिरविनाभावः ॥३५॥ उदाहरन्तिस श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयःस श्याम इति यथा ॥३६॥ नहि मैत्रतनयत्वहेतोः श्यामत्वेन व्याप्तिरस्ति, शाकाद्याहारपरिणतिपूर्वकत्वाच्छयामतायाः । यो हि जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तनयः, स एव श्याम इति सर्वाक्षेपेण यः प्रत्ययः,स तर्क इति ॥३६॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy