________________
रत्नाकरावतारिकायुक्तः।
अत्र सन्निकर्षादिकमज्ञानात्मकस्य दृष्टान्तः, अस्वसंविदित्वज्ञानमनात्मप्रकाशकस्य, परानवभासकज्ञानं बाह्यार्थापलापिज्ञानस्य, दर्शनं निर्विकल्पकस्य, विपर्ययादयस्तु समारोपस्येति ॥२५॥...
कथमेषां तत्स्वरूपाभासता ? इत्यत्र हेतुमाहुः- . .. । तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥ यथा चैतेभ्यः स्वपरव्यवसायो नोपपद्यते तथा प्रागुपदर्शितमेव ॥२६॥ - सामान्यतः प्रमाणस्वरूपाभासमभिधाय विशेषतस्तदनिधित्सवः सांव्यवहारिकप्रत्यक्षाभासं तावदाहुःसांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्॥२७॥ - सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुपवर्णितस्वरूपम् ॥२७॥
उदाहरन्तियथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥२८॥
अत्राद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य,द्वितीयं पुनरनिन्द्रियनिबधनाभासस्य। अवग्रहाभासादयस्तु तद्भेदाः स्वयमेव प्राज्ञैर्विज्ञेयाः॥२८॥ । पारमार्थिकप्रत्यक्षाभासं प्रादुष्कुर्वन्तिपारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२९॥
पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं प्रागुक्तम् ।।२९।।
उदाहरन्तियथा शिवाख्यस्य राजर्षेरसंख्यातहीपसमुद्रेषु सप्तद्वी
पसमुद्रज्ञानम् ॥३०॥ . ." शिवाख्यो राजार्षः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमवध्याभासं तादृशं वेदनमाविर्बभूवेत्याहुः सैद्धान्तिकाः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न संभवति, एकस्य संयमविशुद्धिप्रादुर्भूतत्वात् , अन्यस्य समस्तावरणक्षयसमुत्थत्वात्। ततश्च नात्र तदाभासचिम्तावकाशः ॥३०॥ .......... .... ....