SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ९४ प्रमाणनयतत्त्वालोकालकार:कथं तस्मादपारमार्थिकात् पारमार्थिकस्य सकलप्रमाणफलव्यवहारसांयसत्वस्य सिद्धिः?। तथाच पारमार्थिक एव समस्तोऽपि प्रमाणफलव्यवहारः प्राप्तः । अथ प्रमाणफलसांवृतत्वग्राहकं प्रमाणं स्वयमसांवृतमिष्यते, तर्हि क्षीणा सकलप्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञा, अनेनैव व्यभिचारात्। तदेवं सांवृतसकलप्रमाणफलव्यवहारवादिनो व्यक्त एव परमार्थतः स्वा. भिमतसिद्धिविरोध इति ॥२१॥ - प्रस्तुतमेवार्थ निगमयन्तिततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषा - र्थसिद्धिहेतुः स्वीकर्त्तव्यः ॥२२॥ * एवं प्रमाण स्वरूपादिभिः प्ररूप्येदानी हेयज्ञाने सति तद्धानादुपादेयं सम्यगुपादातुं पार्यते, अतस्तत्स्वरूपाद्याभासमप्याहु:-प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥२३॥ • पूर्वपरिच्छेदप्रतिपादितात्प्रमाणसंबन्धिनः स्वरूपादिचतुष्टयात् स्वरूपसङ्ख्याविषयफललक्षणाद्विपरीतमपरं स्वरूपादिचतुष्टयाभासं स्वरूपाभासं, सङ्ख्याभासं, विषयाभासं, फलाभासं चेत्यर्थस्तद्वदाभासत इति कृत्वा ॥ २३॥ . . . .. .. तत्र स्वरूपाभासं तावदाहु:'अज्ञानात्मकानात्मप्रकाशकस्खमात्रावभासकनिर्विकल्प. कसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥२४॥ अज्ञानात्मकं च, अनात्मप्रकाशकं च, स्वमात्रावभासकं च, निर्विकल्पकंच, समारोपश्चेति प्रमाणसंबन्धिनः स्वरूपाभासाः प्रमाणाभासाः प्रत्येयाः ॥२४॥ * अथ क्रमेण दृष्टान्तमाचक्षतेयथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्श नविपर्ययसंशयानध्यवसायाः ॥२५॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy