________________
रत्नाकरावतारिकायुक्तः ।
व्यवसितिक्रियायां प्रमातेति । स्वतन्त्रत्वं कर्त्तुः कुतः सिद्धम् ? इति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसि तिलक्षणा क्रिया पुनः साध्या, कर्तृनिर्वर्त्यत्वात् या कर्तृनिर्वर्या क्रिया, सा साध्येतिव्यवहारयोग्या; यथा संप्रतिपन्ना, तथा च स्वपरव्यवसितिक्रियेति । तदेवं कर्तृक्रिययोः साध्यसाधकभावेन प्रतीयमानत्वादुपपन्नः कथथ्विद्भेदः ॥ १९ ॥
एनमेवार्थ द्रढयन्ति
न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा; प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥२०॥
अभिनैवेत्यनेन सौगतस्वीकृतमभेदैकान्तं, भिन्नैवेत्यनेन तु वैशेषिकाद्यभिमतं भेदैकान्तं प्रतिक्षिपन्ति - क्रियायाः क्रियावत एकान्तेनाभेदे हि क्रियावन्मात्रमेव तात्विकं स्यात् ; न तु द्वयम्, अभेदप्रतिज्ञाविरोधात् । एकान्तभेदे तु क्रियाक्रियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति संबन्धावधारणं न स्याद्, भेदाविशेषादशेषवस्तूनामप्यसौ किन्न भवेत् ? । नच समवायोऽत्र नियामकतया वक्तुं युक्तः, तस्यापि व्यापकत्वेन तन्नियामक - तायामपर्याप्तत्वात् । तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गः सुव्यक्त इति कथविदविष्वग्भूतैव क्रिया क्रियावतः सकाशादङ्गीकर्तुमुचिता ॥ २० ॥
कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवहृतिरिति विफल एवायं प्रमाणफलालम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति तन्मतमिदानीमपाकुर्वन्ति
संवृत्त्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥२१॥
अयमर्थ: - सांवृतप्रमाणफलव्यवहारवादिनाऽपि सांवृतत्वं प्रमाणफलयोः परमार्थवृत्त्या तावदेष्टव्यम् । तच्चासौ प्रमाणादभिमन्यते, अप्रमाणाद्वा । न तावप्रमाणात्, तस्याकिश्चित्करत्वात् । अथ प्रमाणात् । तन्न । यतः सांवृत खग्राहकं प्रमाणं सांवृतम्, असांवृतं वा स्यात् । यदि सांवृतम् ।