________________
प्रमाणनयतवालोकालार:
यत् खलु क्रियायां साधकतमम् , तत् करणाख्यं साधनं, यथा परश्वधः, साधकतमं च स्वपरव्यवसितौ प्रमाणमिति ॥१५॥
अथ फलस्य साध्यत्वं समर्थयन्तेस्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु
साध्यम्, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत्प्रमाणनिष्पाद्यम्, तत्साध्य,यथोपादानबुद्ध्यादिकं,प्रमाणनिष्पाचं पप्रकृतं फलमिति। तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोन व्यवस्था, तद्भावविरोधात्। न हि सारूप्यमस्य प्रमाणम् , अधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति; अतिप्रसकेः। ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम् , अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम् । स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः । कथं च प्रमाणस्याप्रमाणाफलव्यावृत्त्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्त्या अप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात् ? इति ॥ १६ ॥
अथ प्रसङ्गतः कर्तुरपि सकाशात्प्रस्तुतफलस्य भेदं समर्थयन्तेप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः॥१०॥ कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ अत्र हेतुमाहुःकर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥१८॥
ये साध्यसाधकभावेनोपलभ्येते, ते भिन्ने, यथा देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिलक्षणाक्रिये।
एतद्धत्वसिद्धतां प्रतिषेधन्तिकर्ता हि साधकः, स्वतन्त्रत्वात् ; क्रिया तु साध्या, कर्तु।
निवर्त्यत्वात् ॥१९॥ स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्त्वं तस्मात् । यः क्रियायां स्वतन्त्रः स साधको, यथा दारुच्छिदायां व्रश्चनः, स्वतन्त्रश्च स्वप