SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ रखाकरावतारिकायुक्त: २५ ," . यथोक्तार्थानभ्युपगमे दूषणमाहुःइतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रस ज्ज्येत ॥११॥ 'इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे प्रमाणफले खकीये, इमे च परकीये इति नैयत्यं न स्यादिति भावः। तदित्थमुपादानादौ व्यवहिते फले प्रमाणादभेदस्यापि प्रसिद्धेन तेन प्रकृतहेतोठर्यभिचार इति सिद्धम् ॥११॥ .. अथ व्यभिचारान्तरं पराकुर्वन्ति- अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फ. . ६ लेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥१२॥ .:. प्रमाणफलं च स्यात् , प्रमाणात् सर्वथाऽप्यभिन्नं च स्यात् , यथाऽज्ञाननिवृत्तिरित्यनयो कान्तिकत्वं प्रमाणफलत्वान्यथानुपपत्तेईतोरिति न शङ्कनीयं शाक्यैः ॥१२॥ कुत इत्याह- . #. कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥१३॥ कञ्चिदिति वक्ष्यमाणेन प्रकारेण ॥१३॥ तमेव प्रकार प्रकाशयन्ति- . साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥१४॥ : ये हि साध्यसाधनभावेन प्रतीयेते, ते परस्परं भिद्येते, यथा कुठारेच्छिदे, साध्यसाधनभावेन प्रतीयते च प्रमाणाज्ञाननिवृत्त्याख्यफले ॥१४॥ अस्यैव हेतोरसिद्धतां परिजिहीर्षवः प्रमाणस्य साधनतां तावत्समर्थयन्ते- ... .. प्रमाणं हि करणाख्यं साधनम्, स्वपरव्यवसितौ साधक.............. तमत्वात् ॥ १५ ॥..:..
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy