________________
प्रमाणनयतश्वालोकालङ्कारः-.
येऽर्थानर्थाप्रसाधकत्वेनोपादानहानानर्हे जरत्तणादौ वस्तुन्युपेक्षाबुद्धिः
पारम्पर्येण फलमिति ॥ ५ ॥
प्रमाणात् फलस्य भेदाभेदैकान्तवादिनो योगसांगतान्निराक स्वमतं च व्यवस्थापयितुं प्रमाणयन्ति -
तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥६॥
तदिति प्रकृतं फलं परामृश्यते ।। ६ ।। अथात्राशङ्कय व्याभिचारमपसारयन्तिउपादानबुच्यादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोर्व्यभिचार इति न विभावनीयम् ॥७॥
प्रमाणफलं च भविष्यति, प्रमाणात् सर्वथा भिन्नं च भविष्यति, यथोपादानबुद्ध्यादिकमिति न परामर्शनीयं यौगैरित्यर्थः ॥७॥
अत्र हेतु :
तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥८॥
एकप्रमातृतादात्म्यमपि कुतः सिद्धमित्याशङ्कयाहु:प्रमाणतया परिणतस्यैवात्मनः फलतया परिणति - प्रतीतेः ॥९॥
यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ||९|| एतदेव भावयन्ति -
यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥ १० ॥
न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति कस्यापि सचेतसोऽनुभवः समस्तीत्यर्थः ॥ १० ॥
4.