________________
महम् अथ षष्ठः परिच्छेदः।
एवं प्रमाणस्य लक्षणसंख्याविषयानाख्याय फलं स्फुटयन्ति
यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ यद्वक्ष्यमाणमज्ञाननिवृत्त्यादिकं प्रत्यक्षादिना प्रमाणेन साधकतमेन साध्यते, तदस्य प्रमाणस्य फलमवगन्तव्यम् ॥१॥ अर्थतत्प्रकारतो दर्शयन्ति
तद्विविधमानन्तर्येण पारम्पर्येण च ॥२॥ तत्राद्यभेदमादर्शयन्तितत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥
अज्ञानस्य विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं बोद्धव्यम् ॥३॥
अथापरप्रकारं प्रकाशयन्तिपारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥
औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थ्यमुपेक्षेत्यर्थः । कुत इति चेत् । उच्यते । सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रौदासीन्यमेव भवति, हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपादानात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् ॥४॥
अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलं प्रकटयन्तिशेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥
पारम्पर्येण फलमिति संबन्धनीयम् । तत उपादेये कुङ्कुमकामिनीकपूरादावर्थे ग्रहणबुद्धिः, हेये हिममकराङ्गारादौ परित्यागबुद्धिः, उपेक्षणी