________________
रत्नाकरावतारिकायुक्तः। १५५ अथ गगनपरिसरे मकरकरितुरङ्गकुरङ्गभृङ्गाराङ्गाराद्याकाराननेकप्रकारान् बिभ्रत्यभ्राणि, न च तान्यपि चेतनानि वः संमतानि; तद्वत् तनुभाजोऽपि राजरङ्कादयः सन्त्विति चेत्। तदसत् , तेषामपि जगददृष्टवशादेव देवपदवीपरिसरे विचरतां विचित्राकारस्वीकारात् । कश्चायं स्वभावो यद्वशाजगद्वैचित्र्यमुच्यते ?। किं निर्हेतुकत्वम्, स्वात्महेतुकत्वम् , वस्तुधर्मः, वस्तुविशेषो वा। आद्ये पक्षे सदा सत्त्वस्य, असत्त्वस्य वा प्रसङ्गः । द्वितीये आत्माश्रयत्वं दोषः, अविद्यमानो हि भावात्मा कथं हेतुः स्यात् ? ; विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् ? । वस्तुधर्मोऽपि दृश्यः कश्चित् , अदृश्योवा। दृश्यस्तावदनुपलम्भबाधितः । अदृश्यस्तु कथं सत्त्वेन वक्तुं शक्यः ? । अनुमानात् तु तन्निर्णयेऽदृष्टानुमानमेव श्रेयः । वस्तुविशेषश्चेत् स्वभावो भूतातिरिक्तो भूतस्वरूपो वा । प्रथमे मूर्तोऽमूर्तो वा। मूर्तोऽपि दृश्योऽदृश्यो वा । दृश्यस्तावद् दृश्यानुपलम्भबाधितः । अदृश्यस्त्वदृष्टमेव स्वभावभाषया बभाषे । अमूर्तः पुनः परः परलोकिनः को नामाऽस्तु ?। न चादृष्टविघटितस्य तस्य परलोकस्वीकारः, इत्यतोऽप्यदृष्टं स्पष्टं निष्ट
क्यते । भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रतादिवैसदृश्यभाजोर्यमलजातयोरुत्पादकस्तुल्य एव विलोक्यते, इति कौतस्कुतस्तयोर्विशेषः स्यात् ?। तदर्शनात् तत्राऽदृष्टभूतविशेषानुमानेन नामान्तरतिरोहितमदृष्टमेवानुमितिसिद्धं दृष्टम् ; इतोऽपि-बालशरीरं शरीरान्तरपूर्वकम् , इन्द्रियादिमत्त्वात् , तरुणशरीरवत् । न च प्राचीनभवातीततनुपूर्वकमेवेदम् , तस्य तद्भवावसान एव पटुपवनप्रेरितातितीव्रचिताज्वलनज्वालाकलापप्लुष्टतया भस्मसाद्भावादपान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः । न चाऽशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकशरीरग्रहो युज्यते, नियामककारणामावात् । स्वभावस्य तु नियामकत्वं प्रागेव व्यपास्तम् । ततो यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमिति । पौद्गलिकं चेदमदृष्टमेष्टव्यम् , आत्मनः पारतन्त्र्यनिमित्तत्वाद् , निगडादिवत् । क्रोधादिना