________________
१५६ प्रमाणनयतत्त्वालोकालङ्कारःव्यभिचार इति चेत् । न, तस्याऽऽत्मपरिणामरूपस्य पारतन्त्र्यस्वभावत्वात् ; तन्निमित्तभूतस्य तु कर्मणः पौगलिकत्वात् । एवं सीधुवादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव, तद्धेतुस्तु सीधु पौगलिकमेवेति नैतेनाऽपि व्यभिचारः । ततो यद् यौगैरात्मविशेषगुणलक्षणम् , कापिलैः प्रकृतिविकारस्वरूपम् , सौगतैर्वासनाखभावम् , ब्रह्मवादिभिरविद्यास्वरूपं चाऽदृष्टमवादि; तदपास्तम् । विशेषतः पुनरमीषां निषेधो विस्तराय स्यादिति न कृतः ।। ५६ ॥
अथात्मन एव विशेषणान्तरमाहुःतस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां
कृत्स्नकर्मक्षयवरूपा सिद्धिः ॥ ५७ ॥ तस्याऽनन्तरनिरूपितरूपस्याऽऽत्मनः, उपात्तपुत्रीशरीरस्य स्वीकृतपुरुषयोषिद्वपुषः, एतेन स्त्रीनिर्वाणद्वेषिणः काष्ठाम्बरान् शिक्षयन्ति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चरणादिका, ताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव । यदाहु:-" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति, तत् कथमिह नोपदिष्टम् ? । उच्यते । सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात्, द्वयोरप्यनयोः सहचरत्वात् । सम्यग्ज्ञानस्य क्रियातः पृथगुपादानाद्या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणम् , न पुनर्मिथ्यात्वमलपटलावलुप्तविवेकविकलानां मिथ्याज्ञानपूर्विका कन्दफलमूलशैवालकवलनादिका । कृत्स्नस्याऽष्टप्रकारस्यापि, न तु कतिपयस्य, जीवनमुक्तेरनभिधित्सितत्वात् । कर्मणो ज्ञानावरणादेरहष्टस्य, न तु बुद्धयादिगुणानामपि, नापि ज्ञानमात्रसंतानस्य । क्षयः सामस्त्येन प्रलयः स्वरूपं यस्याः सा तथा । एतेन नैयायिकसौगतोपकल्पितमुक्तिप्रतिक्षेपः । एवंविधा सिद्धिर्मोक्षो भवति । इह केचिज्ज्ञानादेव मोक्षमास्थिषत, तथा ते ब्रुवते-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलम् , न क्रिया; अन्यथा मिथ्याज्ञानादपि