________________
रत्नाकरावतारिकायुक्तः। १५७ क्रियायां फलोत्पादप्रसङ्गात् । यदुक्तम्__ "विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता।
मिथ्याज्ञानात् प्रवृत्तस्य फलाऽसंवाददर्शनात् " ॥ १ ॥ तथा"श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमाटि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ” ॥१॥ क्रियावादिनस्तु वदन्ति-क्रियैव फलहेतुर्न ज्ञानम् , भक्ष्यादिविज्ञानेऽपि क्रियामन्तरेण सौहित्यादिफलानुत्पादात् । यदवाचि“क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ” ॥ १ ॥
तथा"शास्त्राण्यधीत्याऽपि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि न ज्ञानमात्रेण करोत्यरोगम् ” ॥ १ ॥
अत्र ब्रूमहे- यदुक्तम्-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलमित्यादि, तत् 'स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्' इत्यनेन क्रियावादिनैव व्यपास्तम् , इत्युपेक्षणीयमेव । ततः सम्यग्ज्ञानं सम्यक्क्रियासध्रीचीनमेव फलसिद्धिनिबन्धनमित्यभ्युपगन्तव्यम् ;न तुज्ञानैकान्तः कान्तः। क्रियैकान्तोऽपि भ्रान्त एव। यतः स्त्रीभक्ष्यभागज्ञो न ज्ञानात् सुखितो भवेत्' इति तु न युक्तम् । यतः सम्यग्ज्ञानकारणैकान्तवादिनामयमुपालम्भो न पुनरस्माकम् , सम्यग्ज्ञानक्रिययोरुभयोरपि परस्परापेक्षयोः कारणत्वस्वीकारात् । न च नितम्बिनीमोदकादिगोचरायां प्रवृत्तौ तद्विज्ञानं सर्वथा नास्त्येव, यतः क्रियाया एव तत्कारणता कल्प्येत । तद्गोचरविज्ञानसनाथैव तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यला; अन्यथोन्मत्तमूच्छितादेरपि प्रौढप्रेमपरायणप्रणयिनीनिबिडाश्लेषक्रियाऽपि तदुत्पादाय किं न स्यात् ? । अथासौ क्रियैव तत्त्वतो न भवति, सैव हि क्रिया तात्त्विकी या स्वकीयकार्याऽव्यभिचारिणी; हन्त ! तर्हि तदेव तात्त्विकं ज्ञानं यत् स्वकीयकार्याव्यभिचारीति कथं स्त्रीभक्ष्य