________________
१५८ प्रमाणनयतत्त्वालोकालङ्कारःभोगज्ञ इत्युपालम्भः शोभेत ?। ततः कार्यमर्जयन्ती यथा निश्चयनयेन क्रिया क्रियोच्यते, तथा ज्ञानमपि; इति कचिद् व्यभिचाराभावाद् द्वयमेवैतत् फलोत्पत्तिकारणमनुगुणमिति । अथ भवत्वेतत्कारणिका मुक्तिः, तथापि बुद्धयादीनां नवानामात्मविशेषगुणानां योऽत्यन्तमुच्छेदः, तद्रूपैव स्वीकर्तव्या; न पुननिःशेषकर्मक्षयलक्षणा। तथा चानुमानम्-न वानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात् , योयःसन्तानःस सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानः, तथा चायम् , तस्मादत्यन्तमुच्छिद्यत इति । " न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति", "अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " इत्यादयो वेदान्ता अपि तादृशीमेव मुक्तिमादिशन्ति । अपि च
“यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥१॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ ३॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥ ४ ॥ तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ।। ५ ॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ६॥ ऊर्मिषद्कातिगं रूपं तदस्याहुर्मनीषिणः ।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ” ॥ ७ ॥ ऊर्मयः कामक्रोधमदगर्वलोभदम्भाः । "प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते। जरामृत्यू शरीरस्य षडूमिरहितः शिवः " ॥ १ ॥
पलाममा ।