________________
रत्नाकरावतारिकायुक्तः। १५९ इति तु पुराणे ॥ अत्र ब्रूमः --यदवादि- सन्तानत्वादिति, तत्र किमिदं सन्तानत्वं नाम ? किमुपादानोपादेयभावप्रबन्धेन प्रवर्तमानत्वम् , कार्यकारणभावप्रबन्धेन प्रवृत्तिः, अपरापरदार्थोत्पत्तिमात्रता वा । आद्यः पक्षः सावद्यः, आश्रयासिद्धिस्वरूपासिद्धतयोरापत्तेः, बुद्धयादिनवक्षणानामुपादानोपादेयभावरूपतया सन्तानस्य सौगतानामेव संमतत्वात् ; आत्मनः समवायिनः, आत्ममनःसंयोगादसमवायिनः, अदृष्टादेनिमित्ताच्च तैरात्मगुणोत्पादप्रतिपादनात् । एतेन द्वितीयपक्षोऽपि व्यपास्तः, बुद्धयादिक्षणानां कार्यकारणभावमात्रस्याऽपि तैरस्वीकारात् ; प्रलयप्रलीनबुद्धयादेरप्यात्मनः पुनर्बुद्धयाद्युत्पादाङ्गीकारात् । तृतीयपक्षेऽपि व्यभिचारः, अपरापरेषामुत्पादुकानां पटकटकपाटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात्। अथैकाश्रयाऽपरापरोत्पत्तिः सन्तानः, ततो नैष दोषः; तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनवैकल्यं दृष्टान्तस्य; परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात्। अपि च,संतानत्वमपि भविष्यत्यत्यन्तानुच्छेदश्च, विपर्यये बाधकप्रमाणाभावात् , इति सन्दिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम्। विरुद्धश्च, शब्दबुद्धिविद्युत्प्रदीपादिष्वत्यन्तानुच्छेदवत्स्वेव सन्तानत्वस्य व्यवस्थानात् शब्दबुद्धिविद्युत्प्रदीपादयो हि पर्याया द्रव्यरूपतया स्थास्नव एव, तद्र्व्याविष्वग्भूतं पर्यायान्तरमुत्पादयन्त एव प्रध्वंसन्ते । न पुनरमीषामत्यन्तमुच्छेदः सूपपादः, उत्पादव्ययध्रौव्याणां परस्परनिरपेक्षाणां खरविषाणप्रख्यत्वात् । तथाहि- नास्ति क्वचिदत्यन्तमुच्छेदः, स्थित्युत्पादरहितत्वात् , खरविषाणवत् ; इति न प्रस्तुतानुमानाद् बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति । नापि न ह वै सशरीरस्येत्यादिगदितागमात् , शुभाशुभादृष्टपरिपाकप्रभवेन भवसम्भविनी हि प्रियाप्रिये परस्परानुषक्ते अपेक्ष्याऽयं व्यवस्थितः; सकलादृष्टक्षयकारणकं पुनरैकान्तिकात्यन्तिकरूपं केवलमेव प्रियं निःश्रेयसदशायामिष्यते, तत् कुतः प्रतिषिध्यते ? । आगमार्थश्चायमित्थमेव सम