________________
१५४ प्रमाणनयतत्त्वालोकालङ्कारः'न्तत्वाऽऽलोकनादिति ॥ अत्र ब्रूमः-पक्षत्रयमप्येतत् कक्षीक्रियत एव । प्राच्याऽदृष्टान्तरवशगो हि प्राणी रागद्वेषादिना प्राणव्यपरोपणादि कुर्वाणः कर्मणा बध्यते । न च प्रथमपक्षेऽनवस्था दौस्थ्याय, मूलक्षयकरत्वाभावाद् , बीजाङ्कुरादिसन्तानवत् तत्सन्तानस्याऽनादित्वेनेष्टत्वात् । द्वितीयेऽपि यदि कस्यापि कर्माभावो न भवेद् मा भूत् , सिद्धं तावददृष्टम् । मुक्तिवादे तदभावोऽपि प्रसाधयिष्यते । तृतीये तु या हिंसावतोऽपि समृद्धिः, अर्हत्पूजावतोऽपि दारिद्याऽऽप्तिः; सा क्रमेण प्रागुपात्तस्य पापानुबन्धिनः पुण्यस्य, पुण्यानुबन्धिनः पापस्य च फलम् । तत्कियोपात्तं तु कर्म जन्मान्तरे फलिष्यतीति नाऽत्र नियतकार्यकारणभावव्यभिचारः । साधकाभावादपि नाऽदृष्टाभावः, प्राक्प्रसाधितप्रामाण्ययोरागमाऽनुमानयोस्तत्प्रसाधकयोर्भावात् । तथा च “शुभः पुण्यस्य " " अशुभः पापस्य" इत्यागमः । अनुमानं तु-तुल्यसाधनानां कार्ये विशेषः सहेतुकः, कार्यत्वात् , कुम्भवत् ।
" दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । . विशेषो वीर्यविज्ञानवैराग्यारोग्यसंपदाम् " ॥१॥
न चायं विशेषो विशिष्टमदृष्टकारणमन्तरेण । यदूचुर्जिनभद्रगणिक्षमाश्रमणमिश्राः"जो तुलसाहणाणं फले विसेसो ण सो विणा हे।
कज्जत्तणओ गोयम ! घडोव्व हेऊ य से कम्म" ॥ १॥
अथ यथैकप्रदेशसंभवानामपि बदरीकण्टकानां कौटिल्यार्जवादिविशेषः, यथा वैकसरसीसंभूतानामपि पङ्कजानां नीलधवलपाटलपीतशतपत्रसहस्रपत्रादिर्भेदः, तथा शरीरिणामपि स्वभावादेवाऽयं विशेषो भविष्यति । तदशस्यम् , कण्टकपङ्कजादीनामपि प्राणित्वेन परेषां प्रसिद्धस्तदृष्टान्तावष्टम्भस्य दुष्टत्वात् ; आहारक्षतरोहदोहदादिना वनस्पतीनामपि प्राणित्वेन तैः प्रसाधनात् । १ यस्तुल्यसाधनानां फले विशेषो न स विना हेतुम् । . कार्यत्वतः, गौतम ! घट इव हेतुश्च स कर्म ॥१॥