________________
रत्नाकरावतारिकायुक्तः ।
१५३
घट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यो न व्यापकः । तथा चाऽऽत्मा व्यापको न भवति, चेतनत्वात्, यत्तु नैवं न तच्चेतनं यथा व्योम, चेतनश्चात्मा, तस्मादव्यापकः । अव्यापकत्वे चाऽस्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा शरीरपरिमाणता ॥ प्रतिक्षेत्रं विभिन्न इत्यनेन तु विशेषणेनाऽऽत्माऽद्वैतमपास्तम् । एतदपासनप्रकारश्च प्रागेव प्रोक्त इति न पुनरुच्यते ॥ पौगलिकादृष्टवानिति नास्तिकादिमतमत्यसितुम् । तथाहि - नास्तिकस्तावद् नाऽदृष्टमिष्टवान् । स प्रष्टव्यः-किमाश्रयस्य परलोकिनोऽभावात्, अप्रत्यक्षत्वाद्, विचाराक्षमत्वात्, साधकाभावाद् वाऽदृष्टाभावो भवेत् ? । न तावत् प्रथमात्, परलोकिनः प्राक्प्रसाधितत्वात् । नाऽप्यप्रत्यक्षत्वात्, यतस्तवाऽप्रत्यक्षं तत्, सर्वप्रमातॄणां वा । प्रथमपक्षे त्वत्पितामहादेरप्यभावो भवेत्, चिरातीतत्वेन तस्य तवाऽप्रत्यक्षत्वात् ; तदभावे भवतोऽप्यभावो भवेदित्यहो ! नवीना वादवैदग्धी । द्वितीयकल्पोऽप्यल्पीयान् सर्वप्रमातृप्रत्यक्षमदृष्टनिष्टङ्कनिष्णातं न भवतीति वादिना प्रत्येतुमशक्तेः; प्रतिवादिना तु तदाऽऽकलनकुशलः केवली कक्षीकृत एव । विचाराक्षमत्वमप्यक्षमम्, कर्कशतर्कैस्तर्क्यमाणस्य तस्य घटनात् । ननु कथं घटते ? तथाहि-तदनिमित्तं सनिमित्तं वा भवेत् । न तावदनिमित्तम्, सदा सत्त्वासत्त्वयोः प्रसङ्गात् " नित्यं सत्त्वमसत्त्वं; वा हेतोरन्यानपेक्षणात् " । यदि पुनः सनिमित्तम्, तदाऽपि तन्निमित्तमदृष्टान्तरमेव, रागद्वेषादिकषायकालुष्यम्, हिंसादिक्रिया वा । प्रथमे पक्षेऽनवस्था - व्यवस्था । द्वितीये तु न कदापि कस्यापि कर्माभावो भवेत्, तद्धेतोरागद्वेषादिकषायकालुष्यस्य सर्वसंसारिणां भावात् । तृतीयपक्षोऽप्यसूपपादः, पापपुण्यहेतुत्वसंमतयो हिंसाऽर्हत्पूजादिक्रिययोर्व्यभिचारदर्शनात्- कृपणपशुपरम्पराप्राणप्रहाणकारिणां कपटघटनापटीयसां पितृमातृमित्रपुत्रादिद्रोहिणामपि केषांचिच्चपलचारुचामरश्वेतातपत्रपात्रपार्थिव श्रीदर्शनातू, जिनपतिपदपङ्कजपूजापरायणानां निखिलप्राणिपरम्पराऽपारकरुणाकूपाराणामपि केषांचिदने कोपद्रवदारिद्र्यमुद्राक्रा
२०
سول