________________
१५२
प्रमाणनयतत्त्वालोकालङ्कारः
पलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे लोहलेख्यत्वोपलम्भाद् वोऽपि तथाभावप्रसङ्गात् ; प्रमाणबाधनमुभयत्र तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाभावोऽनुषज्यते, कथञ्चिदनित्यत्वे सत्येवाऽस्योपपद्यमानत्वात् । यच्चाऽवाचि-शरीरपरिमाणत्वे चात्मनो मूर्तत्वानुषङ्ग इत्यादि, तत्र किमिदं मूर्तत्वं नाम ? असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा । तत्र नाद्यः पक्षो दोषपोषाय, संमतत्वात् । द्वितीयपक्षस्त्वयुक्तः, व्याप्त्यभावात् ; न हि यदसर्वगतं तन्नियमेन रूपादिमदित्यविनाभावोऽस्ति, मनसोऽसर्वगतत्वेऽपि तदसम्भवात् । अतो नात्मनः शरीरेऽनुप्रवेशानुपपत्तिर्यतो निरात्मकं तत् स्यात् ; असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत् प्रवेशाप्रतिबन्धकत्वात् ; रूपादिमत्त्वलक्षणमूर्त्तत्वोपेतस्यापि हि जलादेर्भस्मादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिबध्यत इति महच्चित्रम् । यदप्यवादि-तत्परिमाणत्वे तस्य बालशरीरपरिमाणस्येत्यादि, तदप्ययुक्तम् , युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् , विफणावस्थोत्पादे सर्पवत् , इति कथं परलोकाभावोऽनुषज्यते?; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात्। यच्चाजल्पि-यदि वपुपरिमाणपवित्रितमित्यादि, तदप्यपेशलम्, शरीरखण्डने कथञ्चित्तत्खण्डनस्येष्टत्वात्, शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानमात्मनः खण्डनम् , तच्चात्र विद्यतएव; अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । न चैकत्र सन्तानेऽनेक आत्मा, अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् , शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खण्डिताखण्डितावयवयोः संघट्टनं पश्चादिति चेत् ?, एकान्तेन च्छेदानभ्युपगमात्, पद्मनालतन्तुवदच्छेदस्यापि स्वीकारात्; तथाभूतादृष्टवशाच्च तत्सं