________________
रत्नाकरावतारिकायुक्तः। १५१ दृष्टमन्यः प्रतिसन्धातुमर्हति अतिप्रसङ्गात् , तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् । शरीरपरिणामत्वे चात्मनो मूर्त्तत्वानुषङ्गाच्छरीरेऽनुप्रवेशो न स्यात् , मूर्ते मूर्त्तस्यानुप्रवेशविरोधात् ; ततो निरात्मकमेवाखिलं शरीरमनुषज्यते । कथं वा तत्परिमाणत्वे तस्य बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः स्यात् ? तत्परिमाणपरित्यागात् , तदपरित्यागाद्वा । परित्यागाच्चेत्, तदा शरीरवत् तस्यानित्यत्वप्रसङ्गात् परलोकाद्यभावानुषङ्गः । अथापरित्यागात् , तन्न, पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तथा“यदि वपुष्परिमाणपवित्रितं वदसि जैनमतानुग ! पूरुषम् । वद तदा कथमस्य विखण्डने भवति तस्य न खण्डनडम्बरम् ?"||१।
अत्राभिध्महे- यदभ्यधायि-नन्वात्मनो व्यापकत्वाभाव इत्यादि, तदसत्यम् , यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासंभवात् ; अयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्तस्याऽप्याकर्षणोपलब्धेः ।अथासंयुक्तस्याऽप्याकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने कियत्परिमाणं तच्छरीरं स्यादिति
चेत्। संयुक्तस्याऽप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् । यच्चान्यदुक्तम्-सावयवं शरीरं प्रत्यवयवमनुप्रविशन्नात्मेत्यादि, तदप्युक्तिमात्रम् , सावयवयत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । न चैवं घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्तिः; न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टम् , कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुध्नोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाकारपरित्यागनोत्तराकारपरिणामः कार्यत्वम् , तच्च बहिरिवान्तरप्यनुभूयत एव । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वो