________________
१५० प्रमाणनयतत्त्वालोकालङ्कारःन्द्रियसंयोगः प्रतिपादितः । युगपन्नानाशरीरेष्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिः, विरोधादिति चेत् । न, युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसङ्गात् , तद्विरोधस्याविशेषात्। तथाविधशब्दकारणभेदाद् न तदनुपपत्तिरिति चेत्, सुखादिकारणभेदात् तदनुपपत्तिरप्येकत्राऽऽत्मनि मा भूद्, विशेषाभावात् । विरुद्धधर्माध्यासादात्मनो नानात्वमिति चेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोष इति चेत्, तत एवात्मन्यप्यदोषः । जननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मबहुत्वं साधयेत्, एकत्राऽपि तदुपपत्तेः, घटाकाशादिजननविनाशादिवत् ; न हि घटाकाशस्योत्पत्तौ घटाकाशस्योत्पत्तिरेव, तदा विनाशस्यापि दर्शनात्; नापि विनाशे विनाश एव, जननस्यापि तदोपलम्भात् ; स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बन्धे न मोक्षः, सति वा मोक्षे न बन्धः स्यात् , एकत्रात्मनि विरोधादिति चेत्। न, आकाशेऽपि सति घटबन्धे घटान्तरमोक्षाभावप्रसङ्गात् ; सति वा घटविश्लेषे घटान्तरविश्लेषप्रसङ्गात् । प्रदेशभेदोपचाराद् न तत्प्रसङ्ग इति चेत्, तत एवात्मनि न तत्प्रसङ्गः । नमसः प्रदेशभेदोपगमे जीवस्याऽप्येकस्य प्रदेशभेदोऽस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था ? यतो व्यापकत्वं स्यात् । नन्वात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यकाभावः, तदभावादन्त्यसंयोगस्य तन्निमित्तशरीरस्य, तेन तत्संबन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्। अस्तु वा यथा कथञ्चिच्छरीरोत्पत्तिः, तथापि सावयवंशरीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् , तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः । कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणैरारभ्येत । न प्राच्यः प्रकारः, विजातीयानामनारम्भकत्वात् । न द्वितीयः, यतः सजातीयत्वं तेषामात्मत्वाभिसंबन्धादेव स्यात् , तथा चात्मभिरारभ्यते इत्यायातम् ; एतच्चायुक्तम् , एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणामसम्भवात् , सम्भवे वा प्रतिसन्धानानुपपत्तिः न ह्यन्येन