________________
रत्नाकरावतारिकायुक्तः। १४९ वसाधनमपि किं न तथा ? पुंसः श्रोताऽऽघ्राताऽहमिति स्वकर्तृत्वप्रतीतेः। अथ श्रोताऽहमित्यादिप्रतीतिरहङ्कारास्पदम् , अहङ्कारस्य च प्रधानमेव कर्तृतया प्रतीयत इति चेत् , तत एवानुभवित प्रधानमस्तु। न हि तस्याहङ्कारास्पदत्वं न प्रतिभाति, शब्दादेरनुभविताऽहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रान्तमनुभवितुरहङ्कारास्पदत्वमिति चेत् , कर्तुः कथं न भ्रान्तम् ? । तस्याहङ्कारास्पदत्वादिति चेत्, तत एवाऽनुभवितुस्तदभ्रान्तमस्तु । तस्यौपाधिकत्वादहङ्कारास्पदत्वं भ्रान्तमेवेति चेत् , कुतस्तदौपाधिकत्वसिद्धिः ?। अथ पुरुषस्वभावत्वाभावादहङ्कारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिकमिति चेत् । स्यादेवम् , यदि पुरुषस्वभावोऽहङ्कारो न स्यात् । मुक्तस्याहङ्काराभावादपुरुषस्वभाव एवाहङ्कारः; स्वभावो हि न जातुचित् तद्वन्तं त्यजति, तस्य निःस्वभावत्वप्रसङ्गादिति चेत् । न, स्वभावस्य द्विविधत्वात् सामान्यविशेषपर्यायभेदात् , तत्र सामान्यपर्यायः शाश्वतिकस्वभावः, कादाचित्को विशेषपर्याय इति न कादाचिकत्वात् पुंस्यहङ्कारादेरतत्स्वभावता, ततो न तदास्पदत्यमनुभवितृत्वस्यौपाधिकम् , येनाभ्रान्तं न भवेत्। ततः सिद्धमात्माऽनुभवितेव कर्ता; अकर्तुर्भोक्तृत्वानुपपत्तेश्च । ननु भोक्तृत्वमप्युपचरितमेवास्य, प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ संक्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्ता व्यपदिश्यते । तदशस्यम् , तस्य तथापरिणाममन्तरेण प्रतिबिम्बोदयस्याऽघटनात्, स्फटिकादावपि परिणामेनैव प्रतिबिम्बोदयसमर्थनात् ; तथापरिणामाभ्युपगमे च कुतः कर्तृत्वमस्य न स्यात् ?; इति सिद्धमस्य कर्तृत्वं साक्षाद्भोक्तृत्वं चेति।स्वदेहपरिमाण इत्यनेनाऽपि नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो निषिध्यते, तथात्वे जीवतत्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसङ्गात् । सर्वगतात्मन्येकत्रैव नानात्मकार्यपरिसमाप्तेः, सकृन्नानामनःसमायोगो हि नानात्मकार्यम् , तच्चैकत्रापि युज्यते, नभसि नानाघटादिसंयोगवत् । एतेन युगपन्नानाशरीरे