________________
१४८ प्रमाणनयतत्त्वालोकालङ्कारःत्ययादपि धनतद्वतोर्भेदाभावानुषङ्गादिति कश्चित् । तदप्यसत् । यतो ज्ञानवानहमिति नात्मा प्रत्येति, जडत्वैकान्तरूपत्वाद् , घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्चास्य स्याद् , विरोधाभावात् , इति मा निर्णैषीः; तस्य तथोत्पत्त्यसम्भवात् ; ज्ञानवानहमिति हि प्रत्ययो नाऽगृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् “नागृहीतविशेषणा विशेष्ये बुद्धिः” इति वचनात् । गृहीतयोस्तयोरुत्पद्यत इति चेत् , कुतस्तद्हीतिः ?। न तावत् स्वतः, स्वसंवेदनानभ्युपगमात् , स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते, नान्यथा; सन्तानान्तरवत् । परतश्चेत् , तदपि ज्ञानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमिति ज्ञानान्तरात् तद्गहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ? । तदेवं नात्मनो जडस्वरूपता संगच्छते । नापि कूटस्थनित्यता, यतो यथाविधः पूर्वदशायामात्मा, तथाविध एव चेज्ञानोत्पत्तिसमयेऽपि भवेत् , तदा प्रागिव कथमेष पदार्थपरिच्छेदकः स्यात् ? प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात् कौटस्थ्यस्य पदार्थपरिच्छेदे तु प्रागप्रमातुः प्रमातृरुपतया परिणामात् कुतः कौटस्थ्यमिति ? ॥ कर्ता साक्षाद्भोक्तेतिविशेषणयुगलकेन कापिलमतं तिरस्क्रियते, तथाहि-कापिलः कर्तृत्वं प्रकृतेः प्रतिजानीते न पुरुषस्य, “अकर्ता निर्गुणो भोक्ता” इति वचनात् । तदयुक्तम् । यतो यद्ययमकर्ता स्यात् , तदानीमनुभविताऽपि न भवेत् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिरिति चेत् । मुक्तः किमकर्तेष्ट: ? । विषयसुखादेरकर्तेवेति चेत्, फुतः स तथा? । तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारणकर्मविशेषस्य कर्तृत्वाद् विषयसुखादेः कर्ता, स एव चाऽनुभविता किं न भवेत् ? । संसार्यवस्थायामात्मा विषयसुखादितत्कारणकर्मणां न कर्ता, चेतनत्वाद्, मुक्तावस्थावत्; इत्येतदपि न सुन्दरम् , स्वेष्टविघातकारित्वात् । संसार्यवस्थायामात्मा न सुखादेर्भोक्ता, चेतनत्वाद्, मुक्तावस्थावत् ; इति स्वेष्टस्यात्मनो भोक्तृत्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिदमिति चेत् , कर्तृत्वाभा