________________
रत्नाकरावतारिकायुक्तः। १४७ मात्मनां साधयति, पृथिवीत्वादिवत्,पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयः, तद्वदात्मत्वयोगादात्मान इति । तद्युक्तम् , आत्मत्वादिजातीनामपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययविशेषात् तत्सिद्धिरिति चेत्, स एव विचारयितुमारब्धः; परस्परमत्यन्तभेदाविशेषेऽपि जातितद्वताम् , आत्मत्वजातिरात्मनि प्रत्ययविशेषमुपजनयति, न पृथिव्यादिषुः पृथिवीत्वादिजातयश्च तत्रैव प्रत्ययमुत्पादयन्ति, नात्मनि; इति कोऽत्र नियमहेतुः?। समवाय इति चेत् , सोऽयमन्योन्यसंश्रयः-सति प्रत्ययविशेषे जातिविशेषस्य जातिमति समवायः, सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययविशेष इति चेत् । स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यपरिणामात् ?, इति स एव प्रत्ययविशेषहेतुरेषितव्यस्तदभावे तदघटनात् , जातिविशेषस्य क्वचिदेव समवायासिद्धरात्मादिविभागानुपपत्तेरात्मन्येव ज्ञानं समवेतमिहेदमिति प्रत्ययं कुरुते, न पुनराकाशादिषुः इति प्रतिपत्तुमशक्तेन चैतन्ययोगादात्मनश्चेतनत्वं सिद्धयेत् ; अथ किमपरेण ?, प्रतीयते तावच्चेतनासमवायादात्मा चेतन इति चेत् । तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निष्प्रतिद्वन्द्वमुपयोगात्मक एवात्मा प्रसिद्धयति । न हि जातुचित् स्वयमचेतनोऽहं चेतनायोगाचेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न, कथञ्चित्तादात्म्याभावे तददर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । तथा चात्मनि ज्ञाताऽहमिति प्रतीतिः कथञ्चिच्चेतनात्मतां गमयति, तामन्तरेणाऽनुपपद्यमानत्वात् , कलशादिवत् ; न हि कलशादिरचेतनात्मको ज्ञाताऽहमिति प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगाचेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् , इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं पराकरोति; तं पुनरिच्छता चैतन्यस्वरूपताऽस्य स्वीकरणीया। ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्र