________________
१४६ प्रमाणनयतत्त्वालोकालङ्कारः. चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्याऽसौ चैतन्यस्वरूपः, परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी, करोत्यदृष्टादिकमिति कर्ता, साक्षादनुपचरितवृत्त्या भुङ्क्ते सुखादिकमिति साक्षाद्भोक्ता, स्वदेहपरिमाणः स्वोपात्तवपुर्व्यापकः, प्रतिक्षेत्रं प्रतिशरीरं भिन्नः पृथक् , पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः, अयमित्यनन्तरं प्रमातृत्वेन निरूपितआत्मेति । अत्र चैतन्यस्वरूपत्वपरिणामित्वविशेषणाभ्यां जडस्वरूपः कूटस्थनित्यो नैयायिकादिसंमतः प्रमाता व्यवच्छिद्यते । यतो येषामात्माऽनुपयोगस्वभावस्तावत् , तेषां नासौ पदार्थपरिच्छेदं विध्याद्, अचेतनत्वात् ; आकाशवत्। अथ नोपयोगस्वभावत्वं चेतनत्वम् , किन्तु चैतन्यसमवायः; स चात्मनोऽस्तीत्यसिद्धमचेतनत्वमिति चेत् । तदनुचितम् , इत्थमाकाशादेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि विहायःप्रमुखेऽपि समानः; समवायस्य स्वयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभावादाऽऽत्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः । ननु यथेह कुण्डे दधीति प्रत्ययाद् न तत्कुण्डादन्यत्र तद्दधिसंयोगः शक्यसं- . पादनः, तथेह मयि ज्ञानमितीहेदंप्रत्ययाद् नात्मनोऽन्यत्र गगनादिषु ज्ञानसमवाय इति चेत्।तदयौक्तिकम् । यतः खादयोऽपि ज्ञानमस्मास्विति प्रतियन्तु, स्वयमचेतनत्वाद् , आत्मवत् ; आत्मानो वा मैवं प्रतिगुः, ततएव, खादिवत् ; इति जडात्मवादिमते सन्नपि ज्ञानमिहेतिप्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्याऽऽत्मनि समवायं नियमयति, विशेषाभावात्। नन्वेवमिह पृथिव्यादिषु रूपादय इति प्रत्ययोऽपि न रूपादीनां पृथिव्यादिषु समवायं साधयेत्, यथा खादिषुः तत्र वा स तं साधयेत् , पृथिव्यादिविव; इति न कचित् प्रत्ययविशेषात् कस्यचिद् व्यवस्थेति चेत् । सत्यम् , अयमपरोऽस्य दोषोऽस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो विशिष्टतयाव्यवस्थापयितुमशक्तेः। स्यान्मतम् , आत्मानो ज्ञानमस्मास्विति प्रतियन्ति, आत्मत्वात् , ये तु न तथा ते नाऽऽत्मानः, यथा खादयः, आमानश्चैतेऽहंप्रत्ययग्राह्याः, तस्मात्तथा; इत्यात्मत्वमेव खादिभ्यो विशेष