________________
रत्नाकरावतारिकायुक्तः। १४५ दुक्तः स्यात् , निर्विकारकत्वे तु सताऽसता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेषः ?, इति कर्मवैफल्यमेव । तदुक्तम्
"वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ?।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्समः” ॥ १ ॥ इति तस्मात् त्यज्यतामेष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम, तन्निवृत्तावात्मीयग्रहोऽपि विरस्यति-अहमेव न, किं मम ? इति । तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारम् , अन्यथा कौतस्कुती निर्वाणवार्ताऽपि ? । तदपि वार्तम् , हेतुफलभावप्रवाहस्वभावस्य सन्तानस्यानन्तरमेव नियामकत्वेन निरस्तत्वात् । यत् पुनः सुखादिविकाराभ्युपगमे चर्मादिवदात्मनोऽनित्यत्वं प्रसञ्जितम् , तदिष्टमेव, कथञ्चिदनित्यत्वेनाऽऽत्मनः स्याद्वादिभिः स्वीकाराद् ; नित्यत्वस्य कथञ्चिदेवाभ्युपगमात् । यत्तु नित्यत्वेऽस्याऽऽत्मीयग्रहसद्भावेन मुक्त्यनवाप्तिदूषणमभाणि, तदप्यनवदातम्, विदितपर्यन्तविरससंसारस्वरूपाणां परिगतपारमार्थिकैकान्तिकाऽऽत्यन्तिकानन्दसन्दोहस्वभावापवर्गोपनिषदां च महात्मनां शरीरेऽपि किंपाकपाकोपलिप्तपायसइव निर्ममत्वदर्शनात् । नैरात्म्यदर्शने पुनरात्मैव तावन्नास्ति, कः प्रेत्यसुखीभवनार्थ यतिष्यते ?; ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते ?; न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः; एकक्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव साधै दध्वंसे । सन्तानस्तु न वास्तवः कश्चिदिति प्ररूपितमेव, वास्तवत्वे तस्य निष्प्रत्यूहाऽऽत्मसिद्धिरिति ॥ ५५ ॥
अथात्मनः परपरिकल्पितस्वरूपप्रतिषेधाय स्वाभिमतधर्मान् वर्णयन्तिचैतन्यस्वरूपः परिणामी कर्त्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिका
दृष्टवांश्वायम् ॥ ५६ ॥ १९