________________
१४४ प्रमाणनयतत्त्वालोकालङ्कारः
उपादानोपादेयभावप्रबन्धेन प्रवर्त्तमानः कार्यकारणभाव एव सन्तान इति चेत् । तदवद्यम् , अविष्वग्भावादिसंबन्धविशेषाभावे कारणत्वमात्राविशेषादुपादानेतरविभागानुपपत्तेः । सन्तानजनकं यत् तदुपादानमिति चेत् । न, इतरेतराश्रयत्वप्रसङ्गात्-सन्तानजनकत्वेनोपादानकारणत्वम् , उपादानकारणजन्यत्वेन च सन्तानत्वमिति । लोके तु समानजातीयानां कार्यकारणभावे संतानव्यवहारः, तद्यथाब्राह्मणसन्तान इति , तत्प्रसिद्ध्या चास्माभिरपि शब्दप्रदीपादिषु सन्तानव्यवहारः क्रियते, तवापि यद्येवमभिप्रेतः सन्तानस्तदा कथं न शिष्याचार्यबुद्धीनामेकसन्तानत्वम् ? ।न ह्यासां समानजातीयत्वं कार्यकारणभावो वा नास्ति, ततः शिष्यस्य चिरव्यवहिताअपि बुद्धयः पारम्पर्येण कारणमिति तदनुभूतेऽप्यर्थे यथा स्मृतिभवति तथोपाध्यायबुद्धयोऽपि जन्मप्रभृत्युत्पन्नाः पारम्पर्येण कारणमिति तदनुभूतेऽप्यर्थे स्मृतिर्भवेत् । किञ्च, धूमशब्दादीनामुपादानकारणं विनैवोत्पत्तिस्तव स्याद् , न हि तेषामप्यनादिप्रबन्धेन समानजातीयं कारणमस्तीति शक्यते वक्तुम् , तथा च ज्ञानस्यापि गर्भादावनुपादानवोत्पत्तिः स्यादिति परलोकाभावः । अथ धूमशब्दादीनां विजातीयमप्युपादानभिष्यते, एवं तर्हि ज्ञानस्याप्युपादानं गर्भशरीरमेवास्तु न जन्मान्तरज्ञानं कल्पनीयम् , यथादर्शनं ह्युपादानमिष्टम् , अन्यथा धूमशब्दादीनामप्यनादिः सन्तानः कल्पनीयः स्यादिति संतानाघटनाद् न परेषां स्मृत्यादिव्यवस्था, नापि परलोकः कोऽपि प्रसिद्धिपद्धतिं दधाति, परलोकिनः कस्यचिदसंभवात् । सत्यपि वा परलोके कथमकृताभ्यागमकृतप्रणाशौ पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादिकर्म कृतम् , तस्य विनाशाद् न तत्फलोपभोगः; यस्य च फलोपभोगः, तेन न तत्कर्म कृतमिति । अथ नायं दोषः, कार्यकारणभावस्य नियामकत्वात्; अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः । स च सन्तान इत्युच्यते,तद्वशात् सर्वो व्यवहारः संगच्छते; नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तदयमनित्य एव चर्मादिव