________________
रत्नाकरावतारिकायुक्तः।
७७
तथाच"भावः स्वतः समर्थश्चेद् , उपकारः किमर्थकः ?।।
भावः स्वतोऽसमर्थश्चेद् , उपकारः किमर्थकः” ? ॥१॥ अत एव न तृतीयः । उपकारवत् सहकारिणामप्यनुपयोगात् । तथाच
"भावः स्वतः समर्थश्चेत्, पर्याप्तं सहकारिभिः । . भावः स्वतोऽसमर्थश्चेत्, पर्याप्तं सहकारिभिः॥१॥ '.. अनेकाधीनस्वभावतया कार्यमेव तानपेक्षत इति चेत् । न । तस्यास्वतन्त्रत्वात् , स्वातन्त्र्ये वा कार्यत्वव्याघातात्, तद्धि तत्साकल्येऽपि स्वातन्त्र्यादेव न भवेदिति । एवं च यत् क्रमाक्रमाभ्यामर्थक्रियाकारि न भवति, तदसत् , यथा गगनेन्दीवरम् , तथा चाक्षणिकाभिमतो भाव इति व्यापकानुपलब्धिरुत्तिष्ठते । तथा च क्रमयोगपद्ययोर्व्यापकयोः व्यावृत्तेरक्षणिकाट्यावर्त्तमानार्थक्रिया क्षणिके विश्राम्यतीति प्रतिबन्धसिद्धिः॥ अत्राचक्ष्महे । ननु क्षणभिदेलिमभावाभिधायिभिक्षुणा कारणग्राहिणः, कार्यग्राहिणः, तहयग्राहिणो वा प्रत्यक्षादर्थक्रियाकारित्वप्रतीतिः प्रोच्येत, यतस्तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेवेत्युक्तं युक्तं स्यात् । न तावत्पौरस्त्यात् , तस्य कारणमात्रमन्त्रणपरायणत्वेन कार्यकिंवदन्तीकुण्ठवात् । नापि द्वितीयात् , तस्य कार्यमात्रपरिच्छेदविदग्धत्वेन कारणावधारणवन्ध्यत्वात् । तदुभयावभासे चेदमस्य कारणम् , कार्य चेत्यर्थक्रियाकारित्वावसायोत्पादात् । वस्तुस्वरूपमेव कारणत्वम् , कार्यत्वं चेति तदन्यतरपरिच्छेदेऽपि तद्बुद्धिसिद्धिरिति चेत्, एवं तार्ह नालिकेरद्वीपवासिनोऽपि वह्निदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य, धूमदर्शनादेव वह्निजन्यत्वनिश्चयस्य च प्रसङ्गः। नापि तृतीयात् , कार्यकारणोभयीग्राहिणः प्रत्यक्षस्यासंभवात् , तस्य क्षणमात्रजीवित्वात्, अन्यथाऽनेनैव हेतोर्व्यभिचारात् । तदुभयसामर्थ्यसमुद्भूतविकल्पप्रसादात्तदवसाय इति चेत्, तार्ह कथं प्रत्यक्षेण तत्प्रतीतिः?। प्रत्यक्षव्यापारपरामर्शित्वात् विकल्पस्य तद्वारेण प्रत्यक्षमेव तल्लक्षकमिति चेत् । ननु न कार्यकारणग्राहिणोरन्यतरेणापि प्रत्यक्षेण प्राकार्यकारणभावो भासयामासे, तत् कथं