________________
प्रमाणनयतश्वालोकालङ्कारः
विकल्पेन तद्व्यापारः परामृश्येत ? इति न क्षणिकवादिनः क्वाप्यर्थक्रियाप्रतीतिरस्तीति वाद्यसिद्धं सत्त्वम् । संदिग्धानैकान्तिकं च, क्षणिकाक्षणिके क्षणिकान्तविपक्षे क्रमाक्रमव्यापकानुपलम्भस्यासिद्धत्वेन तद्व्याप्तार्थक्रियायास्ततो व्यावृत्त्यनिर्णयात् । किंचित् कृत्वाऽन्यस्य करणं हि क्रमः । अयं च कलशस्य कथंचिदेकरूपस्यैव क्रमवत्सहकारिकारणकलापोपढोकनवशेन क्रमेण घटचेटिकामस्तकोपरिपर्यटनात्तासां कुमं कुर्वतः सुप्रतीत एव । अत्र हि भवानत्यन्ततार्किकंमन्योऽप्येतदेव वक्तुं शक्नोति, यस्मादक्षेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमुपादि, स एव चेत् पूर्वमप्यस्ति, तदा तत्कालवत्तदैव तद्विदधानः कथं वार्यताम् ? | तवर्स • " कार्याणि हि विलम्बन्ते कारणाऽसन्निधानतः । समर्थहेतुसद्भावे क्षेपस्तेषां नु किंकृतः ? " ॥ १ ॥ इति ।
७८
नचैतदवदातम् । एकान्तेनाक्षेपक्रियाधर्मत्वानभ्युपगमात् । द्रव्यरूपशक्त्यपेक्षया हि तत् समर्थमभिधीयते, पर्यायशक्त्यपेक्षया त्वसमर्थमिति । यदेव हि कुशूलमूलावलम्बि बीजद्रव्यम्, तदेवावनिवनपवनात - पसमर्पितातिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमङ्कुरं करोति । नन्वसौ पर्यायशक्तिः कुशूलमूलावस्थानाऽवस्थायामविद्यमाना, क्षेत्रक्षितिक्षेपक्षणे तु संपद्यमाना बीजद्रव्याद्भिन्ना वा स्यात्, अभिन्ना वा, भिन्नाभिन्ना वा । यदा भिन्ना, तदा किमनया काणनेत्राञ्जनरेखाप्रख्यया ?, विभिन्नाः सन्निधिभाजः संवेदनकोटीमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि बीजस्यातिशेषविशेषमपोषयन्तः कथं सहकारितामपि प्राप्नुयुः ? इति चेत्, तर्ह्यतिशयोऽप्यतिशयान्तरमनारचयन् कथं तत्तां प्राप्नुयात् ? । अथायमारचयति तदन्तरम्, तार्ह समुपस्थितमनवस्थादौस्थ्यम् । अथाभिन्ना भावात् पर्यायशक्तिः, तार्ह तत्करणे एव कृत इति कथं न क्षणिकत्वम् ? । भिन्नाभिन्नपर्यायशक्तिपक्षोऽप्यशे क्षणिकत्वमनर्पयन्न कुशलीति ॥ अत्र ब्रूमः - एषु चरम एव पक्ष: कक्षीक्रियते । नचात्र कलङ्कः कश्चित् द्रव्यांशद्वारेणाऽक्षणिके वस्तुनि पर्यायांशद्वारेण क्षणिकत्वोपगमात् क्षणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात् । क्षणिकपर्यायेभ्योऽव्यतिरेकात् क्षणिकमेव द्रव्यं प्राप्नो
"