________________
रवाकरावतारिकायुक्तः।
तीति चेत् । न । व्यतिरेकस्यापि संभवात् । नच व्यतिरेकाव्यतिरेकावेकस्य विरुध्येते । न हि नञः प्रयोगाप्रयोगमात्रेण विरोधगतिः, अतिप्रसङ्गात् ।
"दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
वहति विकल: कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् ।
प्रहरति विधिमर्मच्छेदी न कृन्तति जीवितम्॥ १ ॥ इत्यादिष्वपि तत्प्राप्तेः । नच स्थिरभावस्यापि येनैव रूपेण व्यतिरेकम् , तेनैवाव्यतिरेकं व्याकुर्महे; द्रव्यमेतत्, एते च पर्याया इतिरूपेण हि व्यतिरेकः, वस्त्वेतदितिरूपेण त्वव्यतिरेकः । एकमेव च विज्ञानक्षणं सविकल्पाविकल्पकम् , भ्रान्ताभ्रान्तम् , कार्य कारणं चायं स्वयमेव स्वीकरोति, भेदाभेदे तु विरोधप्रतिरोधमाभिदधातीति महासाहसिकः, इति क्षणिकाक्षणिकेऽपि क्रमाक्रमाभ्यामर्थक्रियायाः संभवात् सिद्धं संदिग्धानकान्तिकं सत्त्वम् । क्षणिकैकान्ते ताभ्यामर्थक्रियाया अनुपपत्तेविरुद्वं वा । तथाहि-क्रमस्तावद् द्वेधा; देशक्रमः, कालक्रमश्च । तत्र देशक्रमो यथा तरलतरतरङ्गपरम्परोत्तरणरमणीयश्रेणीभूतश्वेतच्छदमिथुनानाम् । कालक्रमस्त्वकस्मिन् कलशे क्रमेण मधुमधूकबन्धूकशम्बूकादीनां धारणक्रियां कुर्वाणे । क्षणिकैकान्ते तु द्वयोरप्येतयोरभाव एव । येन हि वस्तुना कचिद्देशे, काले वा किंचित्कार्यमर्जयामासे, तत्तत्रैव, तदानीमेव च निरन्वयमनश्यत् , ततो देशान्तरकालान्तरानुसरणव्यसनशालिनः कस्याप्येकस्यासंभवात् क नाम क्षणिकैकान्ते क्रमोऽस्तु । नाप्यत्र यौगपद्यमनवद्यम् । यतः क्षणिकानंशस्वरूपं रूपं युगपदेव स्वकार्याणि कार्याणि कुर्वाणं येनैव स्वभावेन स्वोपादेयं रूपमुत्पादयति तेनैव ज्ञानक्षणमपि, यद्वा येनैव ज्ञानक्षणं तेनैव रूपक्षणमपि, स्वभावान्तरेण वा । प्राचि पक्षे, ज्ञानस्य रूपस्वरूपत्वापत्तिः, रूपोत्पादकैकस्वभावाभिनिवर्त्यत्वात्, रूपस्वरूपवत् । द्वितीये, रूपस्य ज्ञानरूपताऽऽपत्तिः, ज्ञानोत्पादनकस्वभावसंपाद्यत्वात् , ज्ञानस्वरूपवत् । तृतीये, रूपक्षणस्य क्षणिकानंशस्वरूपस्यापत्तिः, स्वभावभेदस्य भेदकस्य सद्भावात् । अथान