________________
प्रमाणनयतत्वालोकाळङ्कारः
शैकस्वरूपमपि रूपं सामग्रीभेदाद्भिन्नकार्यकारि भविष्यति को दोष इति चेत्, तर्हि नित्यैकरूपोऽपि पदार्थस्तत्तत् सामग्रीभेदात् तत्तत्कार्यकर्त्ता भविष्यतीति कथं क्षणिकैकान्तसिद्धिः स्यात् ? । ततो न क्षणिकैकान्ते कमयौगपद्याभ्यामर्थक्रिया संभवतीति सिद्धं विरुद्धं सत्त्वमिति ॥ यदप्याचक्षते भिक्षवः क्षणक्षत्रियकान्तप्रसाधनाय प्रमाणम् - ये यद्भावं प्रत्यनपेक्षाः, ते तद्भावनियताः, यथा ऽन्त्या कारणसामग्री स्वकार्यजनने, विनाशं प्रत्यनपेक्षाश्च भावा इति । तत्र विनाशं प्रत्यनपेक्षत्वमसिद्धतावष्टब्धमेव नोच्छुसितुमपि शक्नोतीति कथं वस्तूनां विनाशनैयत्यसिद्धौ सावधानतां दध्यात् ? । तथाहि - तरस्विपुरुषप्रेरितप्रचण्डमुद्गरसंपर्कात् कुम्भादयो ध्वंसमानाः समीक्ष्यन्ते । नन्वेतत्साधनसिद्विबद्धकक्षेष्वस्मासु सत्सु कथमसिद्धताऽभिधातुं शक्या ? । तथाहि वेगवन्मुद्गरादिर्नाशहेतुर्नश्वरं वा भावं नाशयति, अनश्वरं वा । तत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपत्तिः, स्वभावस्य गीर्वाणप्रभुणा - प्यन्यथाकर्तुमशक्यत्वात् । नश्वरस्य च नाशे तद्धेतूनां वैयर्थ्यम् । नहि स्वहेतुभ्य एवाप्तस्वभावे भावे भावान्तरव्यापारः फलवान्, तदनुपरतिप्रसक्तेः । उक्तं च
"भावो हि नश्वरात्मा चेत्, कृतं प्रलयहेतुभिः । अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः" ॥१॥
"
अपि च । भावात्पृथग्भूतो नाशो नाशहेतुभ्यः स्यात्, अपृथग्भूतो वा । यद्य पृथग्भूतः; तदा भाव एव तद्धेतुभिः कृतः स्यात्, तस्य च स्वहेतोरेवोत्पत्तेः कृतस्य करणायोगात्तदेव तद्धेतुवैयर्थ्यम् । अथ पृथग्भूतोऽसौ तदा भावसमकालभावी, तदुत्तरकालभावी वा स्यात् । तत्र समकालभावित्वे निर्भरप्रतिबन्धबन्धुरबान्धवयोरिव भावाभावयोः समकालमेवोपलम्भो भवेत्, अविरोधात् । तदुत्तरकालभावित्वे तु घटादेः किमायातम्, ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । न हि तन्त्वादेः समुत्पन्ने पटे घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केन चि - त्प्रतिषेद्धुं शक्यः । ननु पटस्याविरोधित्वान्न तदुत्पत्तौ तदभावः, अभावस्य तु तद्विपर्ययादसौ स्यात् । ननु किमिदमस्य विरोधित्वं