________________
रत्नाकरावतारिकायुक्तः।
८१
नाम ?। नाशकत्वम् , नाशस्वरूपत्वं वा । नाशकत्वं चेत् , तर्हि मुद्रादिवन्नाशोत्पादद्वारेणानेन घटादिरुन्मूलनीयः; तथाच तत्रापि नाशेऽयमेव पर्यनुयोग इत्यनवस्था । नाशस्वरूपत्वं चेत् । नन्वेवमर्थान्तरत्वाविशेषात् कथं कुटस्यैवासौ स्यात् ?, अन्यस्यापि कस्मानोच्यते । तत्संबन्धित्वेन करणादिति चेत् , कः संबन्धः ?; कार्यकारणभावः, संयोगः, विशेषणीभावः, अविष्वग्भावो वा । न प्राच्यः पक्षः, मुद्गरादिकार्यत्वेन तदभ्युपगमात्। न द्वितीयः, तस्याद्रव्यत्वात् , कुटादिसमकालतापत्तेश्च । न तृतीयः, भूतलादिविशेषणतया तत्कक्षीकारात् । तुरीये त्वविष्वग्भावः सर्वथाऽभेदः, कथञ्चिदभेदो वा भवेत् । नाद्यः पक्षः, पृथग्भूतत्वेनास्य कक्षीकारात्। न द्वितीयः, विरोधावरोधात् । इति नाशहेतोरयोगतः सिद्धं वस्तूनां तं प्रत्यनपेक्षत्वमिति। तदेतदेतस्य समस्तमुत्पादेऽपिसमानं पश्यतः प्रध्वंस एव पर्यनुयुञानस्य लुप्तैकलोचनतामाविष्करोति। तथाहि-उत्पादहेतुरपि सत्स्वभावस्य, असत्स्वभावस्य वा भावस्योत्पादकः स्यात् । न सत्स्वभावस्य, तस्य कृतोपस्थायिताप्रसङ्गात् । नाप्यसत्स्वभावस्य, स्वभावस्यान्यथाकर्तुमशक्तेः, अभ्युपगमविरोधाच्च । न ह्यसत्स्वभावजन्योत्पादकत्वमिष्यते त्वया । अथानुत्पन्नस्यासत्त्वादुत्पन्नस्य सत्स्वभावत्वाव्यर्थो विकल्पयुगलोपन्यासपरिश्रम इति चेत् । नैवम् । नष्टेतरविकल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात् । तथाच
"भावो भवत्स्वभावश्चेत् कृतमुत्पादहेतुभिः ।
अथाभवत्स्वभावोऽसौ कृतमुत्पादहेतुभिः"॥१॥ तथाऽयमुत्पद्यमानाव्यतिरिक्तः, अव्यातिरिक्तो वा । तत्र जन्याव्यतिरिक्तोत्पादजनकत्वे न जन्यस्योत्पादः, जन्याव्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात्। न हि कथञ्चिद्भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, किन्तु वस्त्विदमित्येव वक्तुं शक्यम् ; नच तथा तदुत्पादः कथितः स्यात्। उत्पद्यमानाव्यतिरिक्तोत्पादजनकतायां न तस्योत्पादः, तद्वदन्यस्यापि वा कथमसौ न भवेत्। तस्यैव संबन्धिनस्तस्य करणादिति चेत्। तदप्यवद्यम् । उत्पादेनापि साकं कार्यकारणभावादेस्त्वन्मतेन संबन्धस्या