________________
વર્
प्रमाणनयतश्वालोकाळङ्कार:
1
संभवात् । तस्मान्नेयमीदृग्विकल्पपरिकल्पजल्पाकता परिशीलनीया । इदं पुनरिदंपर्यम्-यथा दण्डचक्रचीवरादिकारणकलापसहकृतात् मृत्नालक्षणोपादानकारणात् कुम्भ उत्पद्यते, तथा वेगवन्मुद्गरसहकृतात् तस्मादेव विनश्यत्यपि । नचैकान्तेन विनाशः कलशाद्भिन्न एव, मृलक्षणैकद्रव्यतादात्म्यात् । विरोधित्वं चास्य विनाशरूपत्वमेव । नचैवं घटवत्पटस्यापि सदापतिः, मृद्रव्यतादात्म्येनैवावस्थानादुत्पादवत् । नच सर्वथा तादा स्म्यम्, तदन्यतरस्यासत्त्वापत्तेः । नचैवमत्र विरोधावरोधः, चित्रैकज्ञानवदन्यथोत्पादेऽपि तदापत्तेः । इत्यसिद्धं विनाशं प्रत्यनपेक्षत्वमर्थानाम् । अतः कथं क्षणभिदेलिमभावस्वभावसिद्धिः स्यात् ? । एवं च सिद्धं पूर्वा - पस्परिणामव्यापकमेकमूर्ध्वतासामान्यस्वभावं समस्तं वस्त्विति ||५|| अथ विशेषस्य प्रकारौ प्रकाशयन्ति
विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥ ६ ॥
सर्वेषां विशेषाणां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्त्ति - विशेषवाचिनः सन्निधानेन क्रमवर्त्तिविशेषवाची गोबलीवर्दन्यायात् अत्र गृह्यते ॥ ६ ॥
तत्र गुणं लक्षयन्ति -
गुणः सहभावी धर्मों यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः ॥
सहभावित्वमत्र लक्षणम् । यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्तियत्किञ्चित् ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणामयोग्यता । आदिशब्दात् सुखपरिस्पन्दयौवनादयो गृह्यन्ते ॥ ७ ॥ पर्यायं प्ररूपयन्ति
पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ||८||
धर्म इत्यनुवर्त्तनीयम् । क्रमभावित्वमिह लक्षणम् । परिशिष्टं तु निद्र्शनम् । तत्रेत्यात्मनि । आदिशब्देन हर्षविषादादीनामुपादानम् । अयमर्थ:- ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयः, ते गुणाः; ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयः, ते पर्यायाः । नन्वेवं त एव गुणास्त एव पर्याया इति कथं तेषां भेदः ? इति चेत् । मैवम् । कालाभेदविभेदवि