________________
रत्नाकरावतारिकायुक्तः।
वक्षया तद्नेदस्यानुभूयमानत्वात्। नचैवमेषां सर्वथा भेद इत्यपिमन्तव्यम् । कथञ्चिदभेदस्याप्यविरोधात् । न खल्वेषां स्तम्भकुम्भवद्भेदः, नापि स्वरूपवदभेदः; किन्तु धर्म्यपेक्षयाऽभेदः, स्वरूपापेक्षया तु भेद इति । अथैतदाकर्ण्य यौगाः शालूककण्टकाक्रान्तमर्माण इवोत्प्लवन्ते- यदि धर्म्यपेक्षया धर्मिणो धर्मा अभिन्ना भवेयुः, तदा तद्वत् तस्यापि भेदापत्तेः प्रत्यभिज्ञाप्रतिपन्नैकत्वव्याहतिरिति । तन्नावितथम्। कथञ्चित्त दस्याभीष्टत्वात्, प्रत्यभिज्ञायाश्च कथञ्चिदेकत्वगोचरत्वेनावस्थानात् , नित्यैकान्तस्य प्रमाणाभूमित्वात् । तथाहि-यद्यसौ नित्यैकस्वरूपः पदार्थो वर्तमानार्थक्रियाकरणकालवत्पूर्वापरकालयोरपि समर्थः स्यात् , तदा तदानीमपि तक्रियाकरणप्रसङ्गः । अथासमर्थः पूर्व पश्चाद्वाऽयं स्यात् , तदा तदानीमिव वर्त्तमानकालेऽपि तत्करणं कथं स्यात् ।। अथ समर्थोऽप्ययमपेक्षणीयासन्निधेर्न करोति, तत्सन्निधौ तु करोतीति चेत् । ननु केयमपेक्षा नाम ?; किं तैरुपकृतः करोतीत्युपकारभेदः ?, किंवा तैः सह करोतीत्यन्वयपर्यवसायी स्वभावभेदः, अथ तैर्विना न करोतीति व्यतिरेकनिष्ठं स्वरूपम् , यद्वा सहकारिषु सत्सु करोति, तद्विरहे तु न करोतीति तहयावलम्बि वस्तुरूपम् । तत्र प्राच्यः प्रकारस्तावदसारः, अनवस्थाराक्षसीकटाक्षितत्वात् । तथाहि-उपकारेऽपि कर्त्तव्ये सहकार्यन्तरमपेक्षणीयम् , उपकरणीयं च तेनापीत्युपकारपरम्परा समापततीत्यनवस्था । तथाऽमी उपकारमारभमाणा भावस्वभावभूतम् , अतत्स्वभावं वाऽऽरभेरन् । स्वभावभूतोपकारारम्भभेदे भावस्याप्युत्पत्तिरापतति । नानुत्पद्यमानस्योत्पद्यमानः स्वभावो भवति; विरुद्धधर्माध्यासात् । द्वितीयपक्षे तु धर्मिणः किमायातम् ? । नान्यस्मिन् जाते नष्टे वाऽन्यस्य किश्चिद्भवति, अतिप्रसङ्गात् , अथ तेनापि तस्य किञ्चिदुपकारान्तरमारचनीयमित्येषा पराऽनवस्था । तैः सह करोतीत्यादिपक्षोऽपि नाभूणः, स्वभावस्य तावस्थ्यात्। न ह्यस्य सहकारिव्यावृत्तौ स्वभावव्यावृत्तिरिति तैर्विनाऽपि कुर्यात् । ननु यत एव सहकारिव्यावृत्तावस्य स्वभावो न व्यावर्त्तते, अत एव तैर्विनाऽपि न करोति । कुर्वाणो हि तैः सहैव करोतीति स्वभावं जह्यात् । स तार्ह स्वभावभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् ।