________________
८४
प्रमाणनयतत्त्वालोकालङ्कार:
प्रत्युत पलायमानानपि गलेपादिकयोपस्थापयेत्, अन्यथा स्वभावहानिप्रसङ्गात् । अत एव न तृतीयोऽपि । कर्तृस्वभावापरावृत्तेः । अथ तद्विरहाकर्तृस्वभावः, तर्हि कालान्तरेऽपि स्वहेतुवशादुपसर्पतोऽपि सहकारिणः पराणुद्य न कुर्यात् , तद्विरहाकर्तृशीलः खल्वयमिति । तुरीयभेदे विरुद्धधर्माध्यासः, यः खलु सहकारिसहितः, स कथं तद्विरहितः स्यात् ?, तथाच भावभेदो भवेत् । अथायं कालभेदेन सुपरिहर एव; अन्यदा हि सहकारिसाकल्यम् , अन्यदा च तद्वैकल्यमिति । तदसत्। धर्मिणोऽनतिरेकात् । कालभेदेऽपि ह्येक एव धर्मी स्वीचक्रे । तथाचास्य कथं तत्साकल्यवैकल्ये स्याताम् ?; सत्त्वे वा सिद्धो धार्मभेदः। अथ सहकारिसाकल्यम् , तद्वैकल्यं चधर्मः। नच धर्मभेदेऽपि धर्मिणः किञ्चित् , ततो भिन्नत्वात् तेषां इति चेत् । अस्तु तावदेकान्तभिन्नधर्मधर्मवादापवाद एव प्रष्ठः परीहारः । तत्त्वेऽपि न साकल्यमेव कार्यमर्जयति, किंतु सोऽपि पदार्थः। तथाच तस्य भावस्य यादृशश्वरमक्षणेऽक्षेपक्रियाधर्मखभावः, तादृश एव चेत्प्रथमक्षणेऽपि, तदा तदैवासौ. प्रसह्य कुर्वाणो गीर्वाणशापेनापि नापहस्तयितुं शक्यः। यथा हि विरुद्धधर्माध्यासेन भेदप्रसङ्गपरिहाराय साकल्यवैकल्यलक्षणौ धौं भिन्नस्वभावौ परिकल्पितौ तौ, तथा नसोऽप्यक्षेपक्रियाधर्मस्वभावो भावाद्भिन्न एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात् । ततः सिद्धो विरुद्धधर्माध्यासः । एवं च यद्विरुद्धधर्माध्यस्तं, तद्भिन्नं, यथा शीतोष्णे, विरुद्धधर्माध्यस्तश्च विवादास्पदीभूतो भाव इति न नित्यैकान्तसिद्धिः । एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वान्यथानुपपत्तेरिति । तथाहिसर्व वस्तु द्रव्यात्मना नोत्पद्यते, विपद्यते वा; परिस्फुटमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । नच प्रस्तुतोऽन्वयः प्रमाणविरुद्धः; सत्यप्रत्यभिज्ञानसिद्धत्वात्। ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्व वस्तूत्पद्यते, विपद्यते च । अस्खलितपर्यायानुभवसद्भावात् । नचैवं शुक्ले शो पीतादिपयार्यानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात् । न खलु सोऽस्खलद्रूपो येन पूर्वा